SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir m शत्रुञ्जय कल्पवृ० ॥४०॥ ISOSESESPESESZTESPSESSES कोऽपि पाता न तस्याऽस्ति साहसी भुवि साम्प्रतम् । यो रक्षति सुतं मन्त्रि-नाथस्य कष्टतोपि च ॥१०॥ पद्मः प्राह स कुवास्ति ? देव्याहाऽस्य तरोः पुरः । अग्निकुण्डान्ति के योगि-समीपे विद्यतेऽधुना ॥ ११ ॥ पातयित्वाऽग्निकुण्डान्तस्तं धरं योगिराट दृढं । साधयिष्यति कल्याण-पुरुष दुष्टमानसः ॥ १२ ॥ पद्मस्तत्रैत्य मन्त्रीश पुत्रं विमोच्य वेगतः । योगिनं पातयामास वह्निकुण्डे दुराशयम् ॥ १३ ॥ वह्निकुण्डे तदा योगी पतितो हेमपुरुषः । अभूत् तं वारिणा सिक्त्वा शीतं चक्रे नृपाङ्गजः ॥ १४ ॥ इतो मन्त्रिसुतं योग्यपहृतं स्वसुतं गतम् । ज्ञात्वा मन्त्रियुतो भूपोऽचालीत् तयोविलोकितुम् ॥ १५ ॥ अवीक्ष्य स्वसुतं मन्त्रिसुतं चाभून्नृपोऽसुखी । यतो मोहोऽस्ति संसारे बन्धनं महतामपि ॥ १६ ।। निषिध्य गीतगानादि समेत्य स्वगृहे नृपः । प्राह यः कथिता पद्म-धरयोः शुद्धिमञ्जसा ॥१७॥ तस्मै ग्रामशतं वयं-वाजिविंशतिसंयुतम् । दास्येऽहं विलसन्मान-दानपूर्व न संशयः ॥१८ ।। इतोऽभ्येत्य जगौ काष्ठ-विक्रयी कोऽपि मानवः । भवतो नन्दनो हेम-नरयुग वीक्षितो वने ॥१९ ।। भूपालोऽग्रेसरं तं च कृत्वाऽचालीद् यदा पुरात् । तदाऽकस्मात् सुतो मन्त्रिसुतयुग मिलितोऽध्वनि ॥२०॥ In४०॥ पुत्रं हेमनृसंयुक्तं प्रेक्ष्य भूपो जगावदः । भो ! मन्त्रिपुत्र ! कुत्रायं हेमना प्रापि सू नुना ? ॥ २१ ॥ ततो मन्त्रिसुतः प्राह सर्व योगिविचेष्टितम् । समहं नन्दनं स्वीये गेहेऽनपीन् नृपस्ततः ॥ २२ ॥ ISISASESISESASASRISESEGSEASE mmmmmmmmmmmmmmm For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy