SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेमयित्वाऽखिलं सङ्घ यावद् भूपोऽत्तुमिच्छति । तावदन्यः समायातो महान् सङ्घः पुराद्वहिः ॥ १५ ॥ एवं जेमयतः सङ्घ भूपस्याsस्तं ययौ रविः । पुनः प्रौढ : समायातः सङ्घ प्रातः पुराद् बहिः ॥ १६ ॥ तस्मिन् भुक्ते तदा सङ्घे पुनः सङ्घः समीयिवान् । तं च जेमयतः सङ्घ भूपस्याऽस्तं ययौ रविः ॥ १७ ॥ एवं सप्तदिना याता अभुक्तस्य महीपतेः । ततो देवोऽवधिज्ञानाद् जज्ञौ भूपं स्थिराशयम् ॥ १८ ॥ प्रादुर्भूय ततो देवो वर्यभूषणभूषितः । जगौ धन्यो महीश ! त्वं स्थिरं चेतोऽस्ति ते यतः ।। १९ ।। सङ्घमेनं विकुर्व्याहं तेऽकरिष्यं परीक्षणम् । त्वं तु नो चलितः स्वीयाभिग्रहाद् भूप ! साम्प्रतम् ॥ २०॥ सप्त चिन्तामणीन् दत्त्वा दण्डवीर्यमहीभुजे । तत्प्रशंसापरः स्वर्ग समगाद् भूरिसातदम् ॥ २१ ॥ ततः प्रभृति भूपालो विशेषाद् धर्मकृत्यकृत् । सप्तक्षेत्रे धनं स्वीयं वपते स्म सदा मुदा ॥ २२ ॥ दण्डवीर्यो नृपः श्रुत्वा तीर्थमाहात्म्यमद्भुतम् । यात्रायै मेलयामास सङ्घमेवंविधं क्रमात् ॥ महीपालाः सहस्राणि षोडशोत्तंसबद्धकाः । पञ्च कोट्यो महेभ्यानां कुलान्यष्टौ नृणां पुनः ॥ २४ ॥ जाम्बूनदमया देवालयाः सप्तशतप्रमाः । एकादशशती रौप्य-मयदेवौकसां पुनः ॥ २५ ॥ मनुष्या विंशतिः कोट्यः स्त्रियः कोट्यो द्विसप्ततिः । महिषाः कोटिरेकं च जलानयनहेतवे ॥ २६ ॥ स्यन्दनाः स्थगिता वस्त्रैविंशतिः कोटिरद्भुताः । एवमन्यदपि ज्ञेयं सङ्घ तस्य महीपतेः ॥ २७ ॥ २३ ॥ For Private and Personal Use Only 1525525525252525252525252 ॥ ३५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy