SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SS शत्रुञ्जय कल्पवृ ॥४६९॥ S2525252525252525 अष्टाह्निकामहः कृत्वा श्रीजिनेश्वरसद्मसु । नन्दिषेणनृपो दीक्षां जग्राहाऽनघमानसः ॥ ६॥ पठन् गुर्वन्तिके शास्त्रं नन्दि-पेणयतिः क्रमात् । सर्वशास्त्राब्धिपारीणो बभूवाऽमलबुद्धिमान् ॥ ७॥ ज्ञात्वा योग्यं तदा नन्दि-पेणं नेमिजिनेश्वरः । सूरीश्वरपदं वर्य-वासरे दत्तवान् किल ॥ ८॥ नन्दिषणोऽन्यदा नेमि-पार्वेऽप्राक्षीत् कृताञ्जलिः । भगवन् ! व शिवप्राप्ति-भविष्यति ममोत्तमा ॥९॥ नेमिः प्राहाऽस्ति सिद्धाद्रिः पुण्यस्थानं तमोपहम् । तत्र तीर्थे शिवं यान्ति जग्मुर्यास्यन्ति मानवाः ॥१०॥ * यतः तेषां जन्मचरित्रं च जीवनं सार्थकं च ये । सिद्धक्षेत्राचलं यान्ति परेषां व्यर्थमेव तत् ॥११॥ * चतुर्विंशतयोऽनन्ताः सिद्धाः सिद्धाचले हताम् । सेत्स्यन्ति चैत्योद्धृतयस्तत् सङ्खयां वेत्ति केवली ॥१२॥ * ऋषिहत्यादिभिः पापै भवकोटिकृतैरपि । मुच्यते दर्शनादस्य स्पर्शनातु किमुच्यते ? ॥१३॥ तत्र शत्रुञ्जये तीर्थे गतस्य तव संयत ! । भविष्यति शिवप्राप्ति-निःशेषकर्मणां क्षयात् ॥ १४ ॥ श्रुत्वैतन्नेमिनो वाक्यं नन्दिषेणयतीश्वरः । भूरिसाधुयुतः सिद्ध-पर्वते समुपेयिवान् ॥१५॥ मुख्यसालये मूल-नाथमादिजिनेश्वरम् । नत्वा स्तुत्वाऽन्यसर्वज्ञान् ननाम स च मूरिराट् ॥१६॥ जिनं श्रीअजितं सूरिः स्तवन् शान्तिजिनेशितुः । स्वपृष्ठे वीक्ष्य चित्ते नु ध्यातवानिति तत्क्षणात् ॥१७॥ पृष्टि मे ददतः शान्तेः पापं भवति निश्चितम् । अतःस्तौम्यजितं शान्ति युगपद् द्वौ जिनाविति ॥१८॥ 25SESZSZSE25252522 S2525 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy