SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ।। ४६५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रभुः प्राह पुरि शौर्ये समुद्रविजयाभिधः । नृपोऽभवद्यदा न्यायी यादवानां शिरोमणिः ॥ ४ ॥ तापसस्य तदा यज्ञ - यशसः सोममित्रिका | पत्न्यासीत्तनयो यज्ञ दत्तः सोमयशा स्नुषा ॥ ५ ॥ यज्ञदत्तस्य पुत्रोऽभू-न्नारदाह्रो मनोहरः । सोऽर्हद्धर्म्मरुचिर्जन्म यावदासील्लसत्तनुः ॥ ६ ॥ उच्छवृत्ति वितन्वाना यज्ञयशोमुखाः प्रगे । एकान्तरोपवासादि कुर्वते प्रतिवासरम् ॥ ७ ॥ अन्यदा नारदं बालं मुक्त्वाऽशोकतरोरधः । उञ्छवृत्यर्थमन्यत्र जग्मुर्यज्ञयशोमुखाः ॥ ८ ॥ इतो वैताढ्यभूमिधान् व्रजद्भिर्जुम्भिकामरैः । स्वनिकायाच्च्युतो बालो विज्ञातोऽवधितस्तदा ॥ ९ ॥ स्तम्भयित्वा तरोस्तस्य छायां ते निर्जरा ययुः । पश्चात्ते जृम्भिका आगच्छन्तस्तं ददृशुस्तथा ॥ १० ॥ तं बालकं स्वीय-स्थाने ते जृम्भकामराः । प्रज्ञप्तिरोहिणीमुख्या विद्यास्तस्मै वितेनिरे ॥ ११ ॥ माणिक्यपादुकारूढो हेमकुण्डलिकाकरः । नभोsध्वना व्रजन्नित्यं तीर्थानि वन्दते स च ॥ १२ ॥ शीलव्रतधरो मुञ्ज - जटामण्डितमस्तकः । चारित्रिणो यतीन् भक्त्या वन्दते नारदोऽनिशम् ॥ १३ ॥ अन्यदा नारदो द्वारवत्यां यातो मुरारिणा । प्रणम्य भक्तितः पृष्टः किं शौचमुच्यते सता ? ॥ १४ ॥ प्रत्युत्तरस्य दाने त्वसमर्थो नारदस्तदा । गत्वा पूर्वविदेहेष्व-नंसीत् सीमन्धरं जिनम् ॥ १५ ॥ ततोऽवग् नारदः स्वामिन् ! शौचं कि प्रोच्यते बुधैः । सीमन्धरो जिनोऽवोचत् सत्यं शौचं निगद्यते ॥१६॥ For Private and Personal Use Only TESESSES525252555575:5252 ॥ ४६५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy