SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 5 Pइत्यादि बहुशो वारान् वालुकादिप्रदर्शनात् । रामं सीताऽच्युताधीशो बोधयामास स वृषे ॥१५८० ।। ततः स वासवः प्रादुर्भूय स्वगमनं दिवः । ज्ञापयित्वा स्थिरीचक्रे राम दीक्षास्त्रीहेतवे ॥१५८१ ॥ प्रबुद्धो राघवो वह्नि-संस्कारं कमलापतेः । कृत्वा दीक्षां गृहीतुं तु शत्रुघ्नं प्रत्यवक् तदा ॥१५८२ ॥ .. शत्रुञ्जय अहं दीक्षां गृहीष्यामि राज्यं त्वं लाहि साम्प्रतम् । शत्रुघ्न ऊचिवान् पूर्व-महं लास्यामि संयमम् ।। १५८३ ॥ कल्पवृ० उक्तंच-“पिय विभवेण एतो सकारेऊण लक्खणं रामो । पुहइए पालणट्ठा सिग्धं चिअ भणइ सत्तुग्धं ॥१॥ ॥४५७॥ वत्थ ! तुम सयलमिणं भुंजसु रज्जं णराहिव समग्गं । संसारभमणभीओ पविसामि तवोवणं अहयं ॥२॥ सत्तुग्यो भणइ तओ अलाहि रज्जेण दुग्गइकरेण । संपइ मोत्तूण तुमे देव ! गई णत्थि मे अण्णा ॥३॥" शत्रघ्नं राज्यमगृहन्तं ज्ञात्वा दाशरथिस्तदा । अनङ्गलवणं पुत्रं प्रत्युवाच स्फुटाक्षरम् ॥१५८४ ॥ राज्यमेतद् गृहाण त्वं गृहीष्येऽहं तु संयमम् । पुत्रो जगौ विना त्वं तु स्थातुं शक्नोमि न क्षणम् ॥१५८५ ॥ ततो रामो निजे पट्टे बलेन वृद्धमङ्गजम् । अतिष्ठिपद् वहुक्ष्माप-साक्षिकं लसदुत्सवम् ॥ १५८६ ।। तदा विभीषणः पुत्रं सुभूषणाभिधं वरम् । स्वपट्टेऽतिष्ठित्पुत्रं सुग्रीवोऽङ्गदनामकम् ॥ १५८७ ॥ अन्येषामकुशादीनां नन्दनानां यथोचितम् । रामो विश्राणयामास विषयान् विषयोज्झितः ॥ १५८८ ॥ तदाऽन्ये बहवो भूपा रामेण सह संयमम् । लातुकामा निजं राज्यं स्वपुत्रेभ्यो ददर्मदा ॥ १५८९ ॥ 25252SEESSTISESTSS2 525ASSESE ॥४५७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy