SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir PS2SS2SS2 शत्रुज्जय कल्पवृ० mamimaamannaam ॥४४२॥ एवं कृत्वा प्रतिज्ञां स कायोत्सर्गे स्थितो यतिः । चक्रे शासनदेव्यैत्य वक्रं वेगवतीमुखम् ॥१४१९ ॥ उक्त शासनदेव्या च वेगक्त्या स्त्रिया मुधा । कलङ्कः प्रददे साधोः भाव्यस्या मरणं ततः ॥१४२०॥ ततोऽतिपीडिता वेगवत्यभ्येत्यान्तिके यतेः । नत्वाऽवग् मयकाऽदायि कलङ्कोऽस्य मुनेर्मुधा ॥१४२१ ॥ अभाग्यानां शिरोरत्न-मस्म्यहं धुरि साम्प्रतम् । यतो मया मुधा साधोः कलकः प्रददे तदा ॥ १४२२ ॥ ततो वेगवती सज्जीभूता धर्म जिनोदितम् । प्रपेदे सन्निधौ तस्य साधोरेन मुधा तदा ॥ १४२३ ॥ ततः प्रभावना जाता शासने श्रीजिनेशितुः । धर्म वेगवती चक्रे पूजयन्ती जिनक्रमौ ॥१४२४ ॥ दृष्ट्वा वेगवतीरूपं स्वयम्भूभूपतिस्तदा । ययाचे पितरं तस्याः पाणीपीडनहेतवे ।। १४२५ ॥ श्रीभूतिरवदत् पुत्रीं निजां वेगवतीमिमाम् । न हि मिथ्यादृशो दास्ये दास्ये सुश्रावकाय तु ॥१४२६ ॥ स्वयम्भूनृपतिहत्वा श्रीभूति तत्सुतां तदा । रुदन्तीं स्वगृहेऽनैषीद् भोगसौख्यकृते खलु ॥१४२७ ।। तदा वेगवती प्राह हत्वा मे जनकं त्वकम् । नीताहं ततोऽहं स्यां परत्र तव मृत्यवे ॥१४२८ ॥ मोचयित्वा बलात् स्वं तु तदा वेगवती सती । लात्वा दीक्षां तपस्तीवं चक्रे द्वादशधा मुदा ॥ १४२९ ॥ मृत्वा वेगवती प्रान्ते विहिताराधनाक्रिया । दिव्यरूपधरा देवी द्वितीये ताविषेऽभवत् ॥ १४३० ॥ मिथ्यात्वभावितस्वान्तः स्वयम्भूभूपतिस्तदा । मृत्वाऽगानरके घोरे प्रथमे बहुदुःखदे ॥ १४३१ ॥ ESSE252S2C259 ॥४४२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy