________________
Shri Mahavir Jain Aradhana Kendra
शत्रुष्जय कल्पवृ०
॥ ४४१ ॥
15252525252525252252552521
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- जिनेन्द्र मतसंसेवी श्रीभूत्याह्नः पुरोहितः । तस्मिन्नेव पुरे जातो वसुदत्तासुमान् क्रमात् || १४०६ || पत्नी सरस्वती तस्य पतिभक्ता गुणाकरा । कुर्वाणा श्रीजिनप्रोक्तं धर्मं तस्थौ समाहिता ।। १४०७ ।। इतो गुणमती जीवो भ्रमन् भूरिषु योनिषु । विन्ध्याटव्यामभृत् कर्म्म-वशान्मातङ्गगेहिनी ॥। १४०८ ॥ गङ्गापङ्के निमग्नां तां गच्छजीवां गजप्रियाम् । वीक्ष्य साधुरदात् पञ्च नमस्कारं कृपाशया ॥। १४०९ ॥ मृत्वा सरस्वती कुक्षा-वततार वसा वशा | सरस्वती प्रसूतेस्म पूर्णे मासे सुतां क्रमात् ।। १४१० ॥ your वेगवती नाम श्रीभूतिः सप्रियो ददौ । क्रमाद्वेगवती जैन-धर्म्मद्विष्टाऽभवत् किल ॥। १४११ ॥ इतस्तत्र पुरोद्याने श्रीसुन्दरयतीश्वरम् । वन्द्यमानं जनैर्वीक्ष्य दध्यौ वेगवतीति सा ॥ १४१२ ॥
अयं कलङ्कितः साधुर्यदि स्यात् साम्प्रतं द्रुतम् । तदा जिनमते भूयान् कलङ्को जायतेऽखिलः ॥ १४१३ ॥ ait वेगवती नृणां पुरो ह्येष यतिः स्त्रिया । रममाणः समं दृष्टो मया कल्ये दिनात्यये ।। १४१४ ॥
" रागेण व दोसेण व जो दोसं संजयस्स भासेइ । सो हिंडड संसारे दुक्खसहस्साइ अणुहवंतो ॥ १४१५ ॥ श्रुत्वेति नगरीलोकैः तस्मिन् साधावनादरः । चक्रे तथा यथा सार्व-मते स्यादवहीलना ॥ १४१६ ॥ स्वस्मिन् कलङ्कदानं तु मत्वेत्यभिग्रहं ललौ । साधुर्येन ममादायि मुधा कलङ्ककालिमा || १४१७ ॥ तस्य पुंसस्त्रियो वापि विघ्नं भवतु विग्रहे । यद्यहं स्यां कलङ्की तु तदाऽस्तु भस्म मे तनुः || १४१८ ॥
For Private and Personal Use Only
152552552557255 25 25 25255725
॥ ४४१ ॥