SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ३०५ ॥ 5252523525255 www.kobatirth.org वैराग्यं ज्वलनः प्राप्तस्तपः कुर्वन् निरन्तरम् । माहेन्द्रे ताविषे देवोऽजनि भासुरदेहभाग् ॥ १२५ ॥ ततो निर्गत्य वेता-शैलदक्षिणयाम्ययोः । श्रेण्योः स्वाम्यभवद् वज्रदंष्ट्रोऽयं वाडवासुमान् ॥ १२६ ॥ श्रीवर्द्धनोऽपि भूपालो लात्वा दीक्षां तपः परः । गत्वा स्वर्गे ततश्च्युत्वा संयतोऽहमिहाभवम् ॥ १२७ ॥ पाश्चात्यभवसंजातात् वैराद् वज्रदंष्ट्रकः । जघान दण्डघातेन मामत्रैव भवे भृशम् ॥ १२८ ॥ नेमदत्तासुमान् कृत्वा धर्मं जैनं निरन्तरम् । धरणेन्द्रोऽभवस्त्वं च सर्वनागकुमारराट् ॥ १२९ ॥ श्रुत्वेति वज्रदंष्ट्रोऽपि क्षमित्वा निजसूनवे । राज्यं दत्त्वा ललौ वृत्तं संसाराम्भोधितारकम् ।। १३० ।। वज्रदंष्ट्रस्तपस्तीत्रं कुर्वन् शत्रुञ्जयाचले । नत्वाऽऽदिमं जिनं शान्तिजिनं नन्तुं समीयिवान् ॥ १३१ ॥ शान्तितीर्थपतेरग्रे ध्यानं कुर्वन् स संयतः । अवाप केवलं ज्ञानं लक्षसाधुसमन्वितः ॥ १३२ ॥ सर्वकर्म्मक्षयाद्वज्र-दंष्ट्रर्षिः सिद्धपर्वते । शत्रुञ्जये ययौ मुक्ति-नगर्यां रुचिरश्रियि ॥ १३३ ॥ श्रुत्वेति स्वं सुतं राज्ये न्यस्य चक्रधरो नृपः । लात्वा व्रतं तपस्तीव्रं कृत्वा सम्मेतपर्वते ॥ १३४ ॥ सर्वकर्म्मक्षयान्मुक्ति-नगरीं समुपेयिवान् । तदाऽन्ये बहवो भूप- यतयोऽपि ययुः शिवम् ॥ १३५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 755 2 52572522542525 SENSE ॥ ३०५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy