SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥२६३॥ ESSESEPSSSSSSESSESI यावन्न ज्ञायते सम्यग् गिरिः शत्रुञ्जयाभिधः । न पूज्यते जिनस्तावन्न भोक्तव्यं मया क्वचित् ॥५॥ मासान्ते न यदा राजा वेद शत्रुञ्जयं गिरिम् । तदा सङ्घोऽभवद् बाढं व्याकुलो मानसे भृशम् ॥६॥ ततः शस्त्र्या नृपश्छेत्तुं शिरो लग्नोऽतिदुःखितः । तदा तत्रैत्य शक्रोऽवक् साहसं कुरु मा नृप ॥७॥ अहं प्रथमनाकेशः साहसं तव वीक्षितुम् । समागामिह भृमिधा मया विकुर्विता घनाः ॥८॥ त्वं तु धर्मान्मनाग नैव चलितो मेदिनीपते! । प्रादुःकरोम्यहं मुख्यं गिरिं वन्दस्व बोधिदम् ।।९।। ततो शेषेषु शैलेषु संहृतेष्वसुरारिणा । शत्रुञ्जयं समारूढो वीर्यसारो महीपतिः ॥१०॥ न स्नात्र-पूजा-ध्वजादानैर्मुख्यैः कृत्यैर्महीपतिः । स्वजन्म सफली कृत्वा ययौ राजादनीतले ॥११॥ तत्र राजादनी लाजै-वर्द्धयित्वा प्रभुक्रमौ । पूजयामास भूपालो भूरिसङ्घजनान्वितः ॥१२॥ तदा सुधर्मदेवेशः पतितान् श्रीजिनालयान् । उद्दधे दिव्यशक्त्या च वीर्यसारो नृपोऽपि च ॥ १३ ॥ एवं शत्रञ्जये यात्रां कृत्वा विस्तरतो नृपः । समेत्य स्वपुरे धर्म कुरुते स्म दिवानिशम् ॥ १४ ॥ क्रमाद्वीर्यनृपो राज्ये न्यस्य पुत्रं निजं मुदा । लात्वा दीक्षां तपस्तीवं कुरुते स्म निरन्तरम् ॥ १५ ॥ वीर्यसारो नृपः कोटि-मितैः साधुभिरन्वितः । शत्रञ्जये ययौ कर्म-क्षयाय मासि फाल्गुने ॥ १६ ॥ H तत्र तीव्र तपः कृत्वा क्षिप्त्वा शेषतमश्चयम् । सम्प्राप्य केवलज्ञानं साधुभिस्तैर्युतो नृपः ॥ १७ ॥ 1592SZSZSZISZTSSESZSESEI ॥२६३ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy