SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ P Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा भवेषु मानुष्यो ग्रहेष्विव दिवाकरः । तथा द्वीपेषु जम्ब्वाख्यो द्वीपः सर्वोत्तरैर्गुणैः ॥२॥ तस्य दक्षिणदिग्भागे गिरिः शत्रुञ्जयाभिधः । सर्वतीर्थेषु विद्युत प्रकृष्टः शिवशर्मदः ॥३॥ साम्यत्वं सर्वतत्त्वेषु देवतेषु यथा जिनः । दुर्लभः सर्वतीर्थेषु तथा शत्रुञ्जयो गिरिः ॥४॥ शत्रञ्जयसमं तीर्थ जम्बूगं भारतं विना । विद्यतेऽन्यत्र कुत्रापि नैव मुक्तिसुखप्रदम् ॥५॥ श्रुत्वेत्यादि वचो जैन-मीशानेन्द्रो मरुद्युतः । एत्य शत्रुञ्जये चक्रेऽष्टाह्निकामहमादरात् ॥६॥ किञ्चिजर्जरितान् जैनालयान् वीक्ष्य सुराधिपः । दिव्यशक्त्या नवी चक्रे भरतावनिनाथवत् ॥७॥ शत्रुञ्जय कल्पवृ० ॥२६२॥ PSESS22525252525252TSE ॥ श्री प्रथमनाकीन-वीर्यसारनपोद्धारसम्बन्धः । वंशे वृषभदेवस्य वीर्यसारोऽवनीपतिः । सप्त कोटिनृयुग् नन्तुं जिनान् शत्रुञ्जयेऽचलत् ॥ मार्गे बहून् गिरीन् शत्रु-जयतुल्यान् मनोहरान् । प्रासादप्रतिमाद्यैश्च ददर्श सङ्घनायकः ॥१॥ वीर्यसारो नृपो दध्यावेकः शत्रुञ्जयो गिरिः । सुराष्ट्रासु श्रुतो मुक्ति-शर्मसन्ततिदायकः ॥२॥ अधुनैते कृतः शत्रु-जयाः स्फारा महीधराः । दृश्यन्तेऽतो मया कस्मिन् गम्यते धरणीधरे ॥३॥ विषमत्वान् महीधेषु तेष्वारोढुं महीपतिः । न शशाक यदा चक्रे-ऽभिग्रहं त्विति दुष्करम् ॥४॥ ERSSESESZEL १२६२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy