SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ २५८ ॥ 12525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir real सत्पुण्य-कारणानि जनाइयो । आराधितानि कल्याणकमलायै भवन्ति हि ॥ ४१ ॥ उक्तश्च - " न पर्वदिवसे स्नानं न स्त्रीसेवा कलिर्न च । न द्यूतं परहास्यादि न मात्सर्य न च क्रुधम् ॥ १ ॥ मनाक् कषायसङ्गो न ममता न प्रियेष्वपि । यथारुचि न च क्रीडा प्रमादव न किंचन ॥ २ ॥ विधेयं धर्म्मरुचिना पुंसा यतनताजुषा । शुभध्यानवता भाव्यं परमेष्ठिस्मृतिः पुनः " || ३ || त्रिभिर्विशेषकम् सामायिकं पौषधं च पष्ठाष्टममुखं तपः । कृत्वा जनो जिनस्याच पर्व शस्या च पञ्चमी ॥ ४२ ॥ गुरुपादसमीपस्थः परमेष्ठिस्मृति स्मरन् । जनोऽर्जयति पुण्यानि क्षिप्त्वा कर्म्माष्टकं दृढम् ॥ ४३ ॥ त्रयोदश्यां च सप्तम्यां लोकबोधकृतेस्तदा । अयं पटहोद्घोषो मदादेशात् प्रवर्त्तते ॥ ४४ ॥ चतुर्दश्यष्टमी पर्व त्रैलोक्येऽप्यस्ति दुर्लभम् । सेवते यो जनो भक्त्या स याति परमं पदम् ॥ ४५ ॥ दुर्वी प्राह कथं नाथ ! स्वयाऽधुना । कार्यते मानुषं जन्म विना भोगसुखं खलु ॥ ४६ ॥ श्रुत्वैतन्नृपतिः प्राह रे ! रे ! त्वं धर्म्मनिन्दके ! अधर्मवचनं प्रोक्तं दुःखदुर्गतिदायकम् ॥ ४७ ॥ धिक चतुरतां धि धिग् रूपं कुलं बलं यशः । विना धर्मेण कल्याण-कमला शर्मदायिना ॥ ४८ ॥ अष्टम्यां पाक्षिके पक्षि- मृगसिंहादिशावकाः । अध्याहारं न गृह्णन्ति कथं गृह्णाम्यहं प्रिये ! ॥ ४९ ॥ युगादीशेन यत्पूर्वं प्रोक्तं कल्याणहेतुकम् । अहं कण्ठगतप्राण- स्तस्यजामि न कर्हिचित् ॥ ५० ॥ For Private and Personal Use Only SSES 255252525525525525 ।। २५८ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy