SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥२४७॥ ESZSEZIPS525252TISEST बाहुबलितनूजाय ददौ तक्षशिलां पुरीम् । प्रभुस्ततो ललौ दीक्षां संसारार्णवतारिणीम् ॥६॥ तदा कच्छमहाकच्छ-मुख्याः श्रीवृषभानुगाः । सहस्राणि तु चत्वारः प्रभूणाऽमा व्रतं ललुः ॥७॥ चतुर्मुष्टया कृते लोचे प्रभुणाऽऽचष्ट वासवः । तिष्ठतात् पञ्चमी मुष्टियतो भाति तव शिरः ॥८॥ ततः कच्छादयः सर्वे चतुभिर्मुष्टिभिस्तदा । लोचं चक्रुश्रतुर्मुष्टथा स्वस्वामिभक्तितः खलु ॥९॥ विहारे प्रभुणाऽन्यत्र कृते कच्छादिशालिना । विदेशादागतौ तत्र नमिश्च विनमितम् ॥१०॥ मातृभ्यां गदितौ वत्सौ हे नमे विनमे ! लघु । याचेथां भरतं राज्यं सेवेथां तत्पदौ सदा ॥११॥ जल्पतस्तौ न वाचा तु भरतं वृषभाङ्गजम् । याचेवहि प्रभुं किन्तु राज्यं याचिष्यते किल ॥ १२ ॥ एवं प्रोक्त्वाऽऽदिदेवस्य पार्चे गत्वोचतुस्तदा । राज्यं देहि प्रभो ! त्वं च यतः आवां तवानुगौ ॥१३॥ प्रभोर्यातोऽध्वनि द्वौ तु भृत्यौ कण्टापसारतः । उपास्ति चक्रतुः सायं यावच्चाखिन्नमानसौ ॥१४॥ सायं यत्र प्रभुस्तस्थौ पार्श्वयोरुभयोः प्रभोः । आसीनावनुगौ रात्रौ तिष्ठतः स्मावितुं प्रभुम् ॥ १५॥ प्रातस्तौ प्रोचतू राज्यं देहि स्वामिन् ! प्रसद्य वाम् । एवं गतेषु घस्रेषु बहुवागाद् भुजङ्गराट् ॥१६॥ प्रभुं प्रणम्य शेषाहि-राचष्ट तौ प्रति स्फुटम् । अयं मौनी प्रभुः पुंसो राज्यं दत्ते न कस्यचित् ॥ १७ ॥ 7 तेन गत्वा युवां पाश्चें भरतस्य महीभुजः । राज्यं याचेयाथां हे सद्यः स वां तु प्रदास्यति ॥ १८ ॥ 2552SCSESTAS22TSESasas २० For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy