SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जय कल्पवृ० ॥२३३॥ STSTSE2525252525252SSEST अन्येधुश्चक्रिराइ भूयः पुण्डरीकमहीभृतः । उपत्यकावनावेत्य तस्थौ सङ्घसमन्वितः ॥ २० ॥ तत्र प्रौढं पुरं सौपा-रकपत्तनसज्ञितम् । स्थापयित्वाऽऽदिदेवस्य प्रासादं विपुलं व्यधात् ॥२१॥ स्थापयित्वाऽऽदिदेवस्य प्रतिमां चक्रिराट् तदा । आरुरोह गिरेः शृङ्ग मुख्यं कुर्वन् महोत्सवम् ॥२२॥ स्नात्र-पूजाध्वजारोप-मुख्यकृत्यान्यनेकशः । कृत्वा सङ्घपतिस्तत्र विनीतापुरमीयिवान् ॥ २३ ॥ एकदा चक्रिराइ भूयः श्रीसिद्धधरणीभृतः । उपत्यकावनावेत्य तस्थौ सङ्घसमन्वितः ॥२४॥ तत्र स्फारं पुरं पार-कराह्व स्वपुरोपमम् । स्थापयित्वाऽऽदिदेवस्य सदनं विपुलं व्यधात् ॥२५॥ तत्रादिमजिनेशस्य प्रतिमां चक्रिपुङ्गवः । स्थापयित्वाऽऽरुरोहाशु शृङ्ग सिद्धमहीभृतः ॥ २६ ॥ पूजां विस्तरतः कृत्वा प्रभोरादिमचक्रिराट् । व्ययन् भूरिधनं स्वीय-नगरी समुपेयिवान् ॥ २७॥ भूयः शत्रुञ्जयस्याधो गत्वा भाकपुराभिधम् । स्थापयित्वाऽऽदिदेवस्यावासं पृथुतरं व्यधात् ॥२८॥ तत्र श्रीऋषभाप्तस्य विधाय विपुलं गृहम् । बिम्बमस्थापयत् चारुत्सवं भूरिधनव्ययात् ॥२९॥ तत्र शत्रञ्जयशृङ्गेऽधिरुह्य प्रथमप्रभोः । स्नात्रं विस्तरतश्चके सार्वभौमः प्रमोदतः ॥३०॥ तत आरात्रिकं दीपं कृत्वा मङ्गलदीपकम् । इन्द्रमालां परिधाय चक्रिराइ विदघेतराम् ॥३१॥ परिधाप्य गुरून् दानं दत्त्वाऽर्थिभ्यो मुखोदितम् । चक्री स्वपुरमायातो नानोत्सवपुरस्सरम् ॥३२॥ ASSISTSESTESTZSSESESOSTS ॥२३३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy