SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ॥ २३२ ॥ 5257557 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततो भरतचक्रीशः कारयन्नुत्सवं सदा । अयोध्यायां समायातः प्रवेशोत्सवपूर्वकम् ॥ ७ ॥ तथाहि —भटैर्जयजयाराव - मुच्चरद्भिः पुरोगतैः । गायद्भिर्गायनैर्ग्राम-रागरङ्गपवित्रितम् ॥ ८ ॥ उच्चारिर्णीभिर्धवलान् कुलखीभिश्च पृष्ठितः । गणभृद्भिः पुरस्ताच्च सङ्गतः सुकृतैरिव ॥ ९ ॥ अनुव्रजन् सर्वशोभा सङ्गतेऽमी देवतालयम् । प्रविवेश पुरी चक्री समं सङ्घसुरासुरैः ॥ १० ॥ त्रिभिर्विशेषकम् ॥ पुरान्तर्मुख्यतीर्थेषु नत्वा श्रीप्रथमं प्रभुम् । नरेशोऽगान्निजावासं परिधाप्य गुरूनपि ॥ ११ ॥ हायनानां शतप्रान्ते पुनर्भरतभूपतिः । मेलयित्वा बहुं सङ्कं यात्राहेतुं चचाल सः ॥ १२ ॥ मार्गे पुरे पुरे ग्रामे ग्रामे तीर्थकृतं पुनः । पूजयन् प्रददद् दानं ददानोऽचलदादरात् ॥ १३ ॥ श्रीसिद्धारध भूमौ गत्वाऽऽदिमजिनेशितुः । विस्तरादर्चनां कृत्वा ध्वजादानं व्यधात् पुनः ॥ १४ ॥ शोभने वासरे सङ्घ-नायकस्तिलकं वरम् । कारयामास भूयिष्ठ- विभवव्ययतः खलु ॥ १५ ॥ तत्र श्रीआदिदेवस्य प्रासादं प्रवरं तदा । कारयित्वाऽऽदिमं देव-मस्थापयन्नरेश्वरः ॥ १६ ॥ याचकेभ्यो ददन् दानं मुखमार्गितमादरात् । ऊर्ध्वसिद्धमहीभ्रस्य ययौ भरतसङ्घराट् ॥ १७ ॥ स्नात्र-पूजाध्वजारोप - मुख्य कृत्यान्यनेकशः । कृत्वादिजिननाथस्य भावनां नृपतिर्व्यधात् ॥ १८ ॥ विधाय विस्तराद्यात्रां चक्री शृङ्गेषु तेषु च । सदुत्सवमयोध्यायां समागात् सङ्घसंयुतः ॥ १९ ॥ For Private and Personal Use Only 125252525 25 25 255 25 25 25 25 25 ॥ २३२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy