SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ २२६ ॥ 5255255252 525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री शत्रुञ्जयानदीप्रभावे शान्तनभूपकथा । एतेषां तव पुत्राणामवशिष्टेन साधुना । श्रितं राज्यं ततः कुर्या मा चिन्तां मरणेऽधमे ॥ १ ॥ शान्तनोऽवक् कथं तस्मात् पापात् स्यान् मम छुट्टनम् । पुत्राणां च कथं तेभ्यः पापेभ्यः छुट्टनं पुनः ॥ २ ॥ गुरुराचष्ट सिद्धाद्रौ गच्छ सार्धं तनूभवैः । गच्छतश्च तनूजानां पापमुक्तिर्भविष्यति ॥ ३ ॥ शत्रुञ्जया नदी वरा स्नात्वा तत्पयसा पुनः । स्नात्रं कुरु प्रभोर्भक्त्या सर्वपातकपिष्टये ॥ ४ ॥ तटस्थ जिनागारप्रासादे प्रथमं जिनम् । स्थापितं सूर्यभूपेन त्वं प्रपूजय सन्ततम् ॥ ५ ॥ तदेनः शान्तये तत्र विधिवज्जिनचर्चनम् । विधेहि त्वं त्रिधा शुद्धया रक्षणीयाश्च जन्तवः ॥ ६ ॥ षष्टाष्टमादि ते पुत्राः कुर्वन्तो जिनचर्चनम् । भवन्ति लघुकर्माणो मुक्तिभाजो भवन्ति च ॥ ७ ॥ शत्रुञ्जयाम्बुना स्नात्वा स्नात्वा तद्वारिणा प्रभुम् । षण्मासैः स्युर्नरा रोग - रिक्ता राज्यं श्रयन्ति च ॥ ८ ॥ स्नानात् कुकर्मनिर्मुक्ताः सुरोपमशरीरिणः । स्वराज्यस्य तु भोक्तारः स्वाराज्यस्यापि भाविनः ॥ ९ ॥ शत्रुञ्जाम्बुना स्नानं कुर्वश्व कारयन् जिनम् । पण्मासान्ते च वः पाप मुक्तिरेव भविष्यति ॥ १० ॥ शेषेनोक्तं निशम्येति नत्वाऽहीनक्रमौ मुदा । भूपः पुत्रप्रियायुक्तो ययौ शत्रुञ्जये गिरौ ॥ ११ ॥ शत्रुञ्जयानदीतीरे कृत्वा तृणकुटीरकान् । स्वकृतैनश्छिदे तस्थौ भूपः कुटुम्बसंयुतः ॥ १२ ॥ For Private and Personal Use Only SP5255225255752525252525t ॥ २२६ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy