SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कमलः पश्चतां प्राप्तो धरापालो नरेश्वरः । त्वमभूः सुपात्रदानेन भूरिलक्ष्मीसमन्वितः ॥१९॥ मया त्वं निहतः पूर्व-भवे भूमीपते ! ननु । तेनाहं न त्वयाऽत्रैव भवे हतस्तपोधनः ? ॥२०॥ तीर्थमाहात्म्यतः सर्व क्षीणं कर्म ममाधुना । सम्प्राप्तं केवलज्ञानं मया तव प्रसादतः ॥२१॥ * ततो राजाऽपि सन्त्यज्य राज्यं लात्वा व्रतं क्षणात् । शत्रुञ्जये ययौ मुक्तिं क्षिप्त्वा काखिलं क्रमात् ॥२२॥ तदाऽनेके नरा वर्षे लात्वा दीक्षा शिवाचले । सर्वकर्मक्षयान्मुक्ति-पुरीशर्म प्रलेभिरे ॥ २३ ॥ श्रुत्वेति भरतः शत्रुञ्जये भूयिष्ठसङ्घयुग् । गत्वा विस्तरतः सर्वान् जिनानानर्च भावतः ॥२४॥ शत्रुञ्जय कल्पवृ० ॥२१॥ 25252525252525252525SESE ISISTSSEST525252525298 श्री शत्रुञ्जये धरापाल-भूपादीनां मुक्तिगमनस्वरूपम् । उज्जयन्तगिरेः पार्वे गिरिदुर्गाभिधे पुरे । वर्ये ऐक्ष्वाकुवंशेऽभू-द्रविमल्लाभिधो नृपः ॥१॥ तस्य सर्वज्ञभक्तस्य रक्षतः पृथिवीं नयात् । शशिलेखाभिधा पत्नी बभूवाऽनघरूपभृत् ॥२॥ अन्यदा यज्ञयात्रायां भूपे याते च तप्रिया । महेभ्य गेहिनी पुत्रं लालयंती ददर्श सा ॥३॥ ततो राज्ञी सुताभावं स्वस्मिन्नालोक्य तत्क्षणात् । शुशोचेत्यहकं भाग्य-हीनाऽस्मि जगतितले ॥४॥ ॥ २१०॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy