SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ. 25252SPSZSE52525ES695 * यतः-सन्तापं तनुते भिनत्ति विनयं सौहार्दमुच्छादय-त्युद्वेगं जनयत्यवद्यवचनं ब्रूते विधत्ते कलिम के कीर्ति कृन्तति दुर्गतिं वितरति व्याहन्ति पुण्योदयं, धत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥७॥ एवं तस्य यतेानं कुर्वतः करुणात्मनः । उत्पन्ने केवलज्ञाने देवाश्चक्रर्महोत्सवम् ॥ ८॥ प्रजापालः सुरान् ज्ञानोत्पत्त्युत्सवं वितन्वतः । दृष्ट्वा विस्मितचेतस्कः पप्रच्छ निर्जरानिति ॥ ९ ॥ किमर्थ क्रियते साधो-रस्योत्सवो मनोहरः । देवाः प्रोचुरयं साधुः पूज्योऽस्ति मरुतामपि ॥१०॥ ततो भूपः समुत्थाय प्रणम्य तं यति जगौ । मया ते विहितं विघ्नं जीवितव्यान्तकृद् ननु ॥११॥ केवल्यवग् मया त्वं तु हतो दण्डाभिघाततः । तेनाहं भवता राजन् ! निहतः साम्प्रतं दृढम् ॥१२॥ राजाऽवग् भवता कुत्र भवेऽत्र परत्र च । हतोऽहं श्रावयेदानी ततः प्राह स केवली ॥१३॥ चन्द्रावनगरे चन्द्रः क्षत्रियोऽजनि सुन्दरः । नैगमः कमलाहोऽभूत कुन्तलाभिधपत्तने ॥१४॥ । चन्द्रेण कमलोऽन्येधुनिहतो यष्टिना मुधा । कमलोऽवग् मुधा मा त्वं कथं हंसि दुराशय ! ॥१५॥ क्षत्रियो धर्मघोषान्ते श्रुत्वा धर्म जिनोदितम् । चकार जिननाथस्य पूजां पुष्पैर्मनोहरैः ॥१६॥ मृत्वाऽद्य क्षत्रियो वीर-पुरे वीरवणिकसुतः । सुधासेनाभिधो जातः कलासु कुशलः क्रमात् ॥१७॥ श्रत्वा धर्म जिनेन्द्रोक्तं लात्वा संयममादरात् । तपः कुर्वनिहायातः स एवाहं नरेश्वर ! ॥१८॥ ॥२०९॥ SSPSS2SSeSSESS292027SSE ॥२० For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy