SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१८३॥ PST2TS2525252SSES www.kobatirth.org वर्षाष्टप्रमितः पुत्रो रामो यावदजायत । तावत्तस्य तनौ कुष्ठं निन्द्यमासीत् कुकर्मतः ॥ ६५ ॥ अनेकेषूपचारेषु कृतेषु तनुजन्मनः । नाभूधदा गुणो देहे तदा दुःखी नृपोऽभवत् ॥६६॥ इतस्तत्र पुरे पुण्य धर्मः श्रावकपुङ्गवः । वन्दमानो जिनान् ग्रामे ग्रामे नन्तुं समागमत् ॥६७॥ पूजयित्वाऽर्हतो देव-गृहेषु श्रावकः स च । राज्ञो गेहे ययौ देव-देवं पूजयितुं क्रमात् ॥ ६८॥ अर्चयित्वा जिनं श्राद्धः पप्रच्छेति महीपतिम् । तवाऽऽस्यं वीक्ष्यते श्याम किमिदानीं नरेश्वर ! ॥ ६९ ॥ राजाऽवग् मम पुत्रस्य कुष्ठं तीव्र समागतम् । औषधैर्बहुभि व गतं दुःखं ततो मम ॥ ७० ॥ * यत-अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च सर्व पापविज़म्भितम् ॥७१ ॥ पुण्यधर्मों जगौ राजन् ! सुराष्ट्राविषये वरे । अस्ति शत्रुञ्जयोपान्ते नदी शत्रुञ्जया वरा ॥७२॥ तस्या नीरेण नाभेयार्हतः स्नात्र विधाय च । निजाङ्गं स्नपयामास स स्याद् दिव्यतनुर्नरः ॥ ७३ ॥ श्रुत्वेति भूधरो भूरि संघलोकसमन्वितः । पुत्रं नीत्वा ययौ शत्रुजये यात्राकृते लघु ॥ ७४ ॥ शत्रुञ्जयापयो नीत्वा कृत्वा स्नात्रं प्रभोनृपः । तन्नीरेण सुतस्याङ्ग-मभ्यषिश्चत भावतः ॥ ७५ ।। तदा कुष्ठं गतं देहात् मूनोभूमीभुजोऽचिरात् । ततो राजा विशेषेण जिनभक्ति व्यधान्मुदा ॥ ७६ ॥ राजा स्फारं जिनागारं शत्रुञ्जयनदीतटे । कारयित्वाऽऽदिदेवस्य विम्ब न्यवीविशन्मुदा ॥ ७७ ॥ SS2CSGT25252S9CSZS29 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy