SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय ८. ASTUSTISSEISTITSSCSE भूपोऽप्राक्षीत् कुतः स्थानात् कुतो देशादिहागतः ?। किमर्थ ? किं त्वया दृष्टमपूर्व ? किं श्रुतं ? वद ॥४०॥ वैदेशिको जगौ पद्म-पुराद् भ्राम्यन्नहं भुवि । अगां कुन्दपुरोपान्ते नानोद्यानविराजिते ॥४१॥ तत्रासीन्मेदिनीपालः प्रजापालाभिधो नयी । तस्याभृच्छ्रीमती पत्नी सप्ताऽभूवंस्तनूभवाः ॥४२॥ बहूपयाचितैस्तेषां सुतानामुपरि क्रमात् । एकाऽभून्नदिनी नन्दा नाम्ना रूपजितामरी ॥ ४३ ।। धर्मकर्मकला वर्या शिक्षिता धुरि नन्दनाः । पश्चाद् भूपतिनन्दिन्यः पित्रापि परिणायिताः ॥४४॥ पठन्ती नन्दिनी नन्दा बुधोपान्ते निरन्तरम् । भारतीवाभवद्वय-विद्याम्भोनिधिपारगा ॥४५॥ * यतः- जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः॥४६॥ ज्वलनोत्पादिकां विद्यां तुष्टेन व्योमगामिना । प्रददे पुण्यपालाय धर्मात किं किं भवेन्नहि ? ॥४७॥ यतः- धनदो धनमिच्छूनां कामदः काममिच्छताम् । धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥ ४८॥॥ ध्यातं राज्ञाऽन्यदा सर्व-वर्यविद्याविशारदा । विनीता विद्यते पुत्री मदीयेयं मनोहरा ।। ४९ ॥ औदार्यसत्त्वधैर्यादि-मनोहरगुणान्वितः । भूपपुत्रो वरोऽनों जायते स्यात् तदा वरम् ॥ ५० ॥ ध्यात्वेति भूपतिः पुर्या बहिः पीठं मणीमयम् । कारयित्वा प्रगे तत्रो-पवेशयति नन्दिनीम् ॥५१॥ । भूपो वक्ष्य (क्ती)ति योऽत्रास्ति सात्त्विको मानवो नृपः । गृह्णातु मत्सुताहस्ता-दरमालां स एव तु ॥ ५२ ॥ ICSESSISSESESS2S52S:SESCE Unा॥१८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy