SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ १४५ ॥ 5252522525255252525255252 - SANDEE www.kobatirth.org अस्मिन् शत्रुञ्जये देवान् नौति यः कुरुते तपः । स एव लभते स्वर्गापवर्गादिसुखं द्रुतम् ॥ २९ ॥ यतः - " अन्यतीर्थेषु यद् यात्रा- शतैः पुण्यं भवेन् नृणाम् । तदेकयात्रया पुण्यं शत्रुञ्जयगिरौ स्फुटम् ॥ ३० ॥ एकैकस्मिन् पदे दत्ते पुण्डरीकगिरिं प्रति । भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥ ३१ ॥ धर्मोपदेशमित्यादि श्रुत्वा धर्मजिनान्तिके । अनेके भविनो मुक्तिं ययुः शत्रुञ्जयाचले || ३२ || 5-5 फु फ्र ॥ श्री शान्तिजिनस्य शत्रुञ्जयागमनस्वरूपम् ॥ हस्तिनागपुरे विश्व-सेनस्य मेदिनीपतेः । अचिराह्वा प्रिया जाता शीलादिगुणशालिनी ॥ १ ॥ चतुर्दशमहास्त्रम- सूचितं नन्दनं वरम् । ज्येष्ठासितत्रयोदश्या - मचिरा सुषुवे सुखम् ॥ २ ॥ हरिणा विहिते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा शान्तिकुमारेति नामाऽदात् तनयस्य तु ॥ ३ ॥ क्रमाच्चक्रिपदं प्राप्य त्यक्त्वा च संयमश्रियम् । लात्वा कर्मक्षयात् प्राप शान्तिर्ज्ञानमनुत्तरम् ॥ ४ ॥ बोधयन् भविनो भूरीन् शान्तिस्तीर्थङ्करः क्षितौ । सिद्धाद्रौ समवासार्षीद् भूरिसाधुसमन्वितः ॥ ५ ॥ शुद्धधर्मोपधेनैव भावयन्नात्मनो मनः । भवी भवति कल्याण- सातभाक् तमसां क्षयात् ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 3525525575252525252525252; ॥ २४५॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy