SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ● ॥ १२१ ॥ 575 25 25 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उन्दरोsar कदाचित् स्यात् रक्षको महतां लघुः । रक्षितुं नहि शक्येत महतापि लघोः क्वचित् ॥ १२ ॥ हसन् हस्ती जगौ विघ्ने पतितं मामवेर्यदा । तदाऽहं त्वां वरं मन्ये भृत्यं विश्वोपकारकम् ॥ १३ ॥ भक्षयन् सल्लकीर्भ्राम्यन् स्वेच्छया सर्वतो वने । पाशे व्याधकृते हस्ती न्यपतत् कर्मयोगतः ॥ १४ ॥ विभ्यन्मृत्युभयाद्धस्ती निर्गन्तुं पाशतो दिशः । ततो विलोकयामास पाशच्छेदन हेतवे ।। १५ ।। तदोन्दरः समागत्य नत्वा गजं जगाविति । स्वामी चतुःपदेषु त्वमस्यतो मे प्रभुः पुनः ॥ १६ ॥ त्वां व्याधाः प्रहनिष्यन्ति तेनातो निस्सराऽधुना । हस्त्यवक् पाशतोऽमुष्मात् छुट्टनं दुश्शकं मम ॥ १७ ॥ यदि शक्तिस्तवस्तीह छोड़ने मम साम्प्रतम् । तदोद्यमं कुरुध्व त्वं सुन्दरोत्तम ! वेगतः ॥ १८ ॥ ततः आखुर्बहूनाssवून मेलयित्वा क्षणात्तदा । पाशमाद्रं व्यधादास्य- धूत्कृतेनाऽम्भसेव सः ॥ १९ ॥ दन्तेश्च त्रोटयासास पाशमाखस्तथा तदा । यथाssसन् शतशः खण्डाः स्वस्थोऽभवदतो गजः ॥ २० ॥ निर्गत्य पाशतो हस्ती सर्वानास्तदा द्रुतम् । धान्यौघदर्शनेनैव प्रीणयामास सादरम् ॥ २१ ॥ * एवं गजसमो जीवो मनो व्याधसमं मतम् । व्याघपाशोपमं कर्म भवोऽरण्यसमः पुनः ॥ २२ ॥ * जीवः कुमनसा बद्धः शुक्लध्यानाssखुना पुनः । मोचितः सुखवान् सद्यो जायते सामयोनिवत् ॥ २३ ॥ एष दृष्टान्तः कल्पितोऽस्ति " चरिअं च कप्पिअं वा आहरणं दुविहमेव नायच्वं० ॥" For Private and Personal Use Only 552525255255255255725t ॥ १२१ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy