SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवृ० ॥१२०॥ ELTSSISTSETSESESSESTSEI ॥ श्री सुपाजिन-कथा ॥ वाणारस्यां प्रतिष्ठस्य भूपस्य पृथिवी प्रिया । प्राप्त तनयं वर्य-रूपलक्षणलक्षितम् ॥१॥ शक्रपितृकृते जन्मोत्सवे प्रतिष्ठभूपतिः । सुपार्श्व इति नामाऽदात् सूनोः सज्जनसाक्षिकम् ॥२॥ राज्यं प्राप्य क्रमात्यक्त्वा दीक्षां लात्वा तमःक्षयात् । प्राप्तज्ञानः प्रभुभव्य-बोधाय व्यहरद् भुवि ॥३॥ अत्र सुपार्श्वचरित्रं ज्ञान-प्राप्ति यावद् वाच्यम् । सततं विहरन् पृथ्व्या-मन्येद्यः सिद्धपर्वते । बोधाय भव्यजीवानां सुपार्श्वः समवासरत् ॥४॥ तत्र सुपार्श्वतीर्थेशो मेघगम्भीरघोषया । वाण्या धर्मोपदेशं तु प्रददौ मुक्तिशर्मदम् ॥५॥ * चरिअं च कपि च आहरणं दुविहमेव नायव्यं । भव्वजीवबोहत्थं इंधणमिव ओअणट्ठाए ॥६॥ हस्ती बद्धो यथा दुःखी मुक्तः स्यात् सुखवान् यथा । तथैव कर्मणा जीवो जायते जगति ध्रुवम् ॥७॥ भीमघोषाभिधारण्ये सप्तशत्या करेणुभिः । युक्तो मतङ्गजो मत्तः सल्लकीर्भक्षयन्नभूत् ॥८॥ तस्योपान्तेऽन्यदाऽभ्येत्योन्दरः प्राह गजाधिपम् । यदि ते रोचते सेवां तदा करोम्यहं सदा ॥९॥ अहं ते रक्षणं कुर्वे दुष्टारातिसमीपतः । मया तु रक्षिताः सिंहा-दयः सत्त्वा अनेकशः ॥१०॥ हसन्निभो जगौ त्वं चेन्मां रक्षसि कुकष्टतः । तदाऽस्माकं समं कार्य सिद्धमुन्दर ! वेगतः ॥११॥ LPS2S22252SSEGOSZ5RSES ||१२०॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy