SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie aaa शत्रुजय कल्पवृ० a ॥१०॥ SZS SISESESESSES आमच्छाऽत्र वृणु त्वं मतले भिल्ली जगावदः । मौढयान्मयोदितो भेदस्तेमाहं वञ्चिता त्वया ॥२८॥ ततो गच्छन् कुमारस्तु गतो बिन्नानदीतटे । यावद् वृक्षेऽचटन् तावन्मूलात् पपात वारिणि ॥२९॥ आरुह्य तं तरं भूप-पुत्रो बेन्नाटपत्तने । ययौ यावत्तदा जज्ञे करेषु चन्दनं द्रुमम् ॥३०॥ इभ्येभ्यस्तं वितीर्य द्रं प्राप्य भूरीन् मणीन् वरान् । श्रेणिकः प्रययौ हट्टे धनावहरमावतः ॥ ३१ ॥ तस्मिन् हट्टस्थिते भूरि-लाभे जाते वणिग् जगौ । कस्य प्राघुर्णकोऽसि त्वं ? स प्राह भवतोऽस्म्यहम् ॥३२॥ स्वगृहे श्रेष्ठिनाऽऽनीतं दृष्ट्वा च रुचिराकृतिम् । नन्दापुत्री जगौ ताताऽमुना मां परिणापय ॥ ३३ ॥ श्रेष्ठिना भोजयित्वा तं तस्मै नन्दा निजाङ्गजाम् । वितीर्य स्वगृहेऽस्थापि स श्रेणिको नृपाङ्गजः ॥ ३४ ॥ धूलि पूर्वागतां यान-पात्रेभ्यः स धनावहः । हट्टस्याग्रेऽक्षिपद्यां तु तां दृष्ट्वा श्रेणिकोऽगदत् ॥ ३५ ॥ एवं कथं त्वया क्षिप्ता धूली तेजनतूरिका । श्रेष्ठी प्राहाऽनया धृल्या विद्यते किं प्रयोजनम् ? ॥३६॥ श्रेणिकः प्रोक्तवानेषा न धूलिविद्यते वणिग् ! । इयं क्षिप्ताऽनले स्वर्ण जायते त्रपुयोगतः ॥ ३७ ।। श्रेष्ठयपि स्वर्णमादाय धूलितो धनवानभूत् । श्रेणिकोऽन्धां महीपाल-पुत्रीं दिव्यदृशं व्यधात् ॥ ३८ ॥ सगर्भा गेहिनी मुक्त्वा तातेनाऽऽकारितो रहः । श्रेणिकोऽभ्येत्य तातस्य ननाम चरणौ मुदा ॥ ३९ ॥ प्रसेनजिन्नृपो राज्यं दत्त्वा श्रेणिकमनवे । तपो लात्वाऽऽयुषः प्रान्ते स्वर्गसातमवाप्तवान् ॥४०॥ SPSS255ESSESESGESELLS maaaaaaa For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy