SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ ८८ ॥ www.kobatirth.org तपन्तः सन्ततं तीव्रं तपोध्यानपरायणाः । गमयन्ति सुखात् काल- मर्जयन्ति शिवश्रियम् ॥ २३ ॥ औषधीभिः सदोद्योतो जायते तत्र सन्ततम् । केलिं कुर्वन्ति यक्षाद्या निर्जरा भूरिशो मुदा ॥ २४ ॥ विलोक्य कौतुकान्येवं भीमः पदे पदे मुदा । पूजयित्वा प्रभुं झम्पां शैलाद्दातुं यदोद्यतः ।। २५ ।। तदा तत्र स्थितो ज्ञानी जगादेति नरोत्तम ! | आत्मनो घाततो जीवा न छुटन्ति स्वकर्मतः ॥ २६ ॥ तेन त्वं कुरु तीव्रं तु तपः ते स्याद्यतः सुखम् । चन्द्राविवरे गत्वा कुरुष्व च तपोऽनिशम् ॥ २७ ॥ तत्र गत्वा तपस्तस्य भीमस्य कुर्वतः सतः । श्रीपुरस्याऽभवद्राज्यं चतुरङ्गचमृयुतम् ॥ २८ ॥ राज्यं कृत्वा चिरं शत्रुञ्जये गत्वा तं स च । लात्वा तपो व्यधातीयं चन्द्राह्नविवरस्थितः ॥ २९ ॥ तत्र भीमऋषेस्तीव्रं तपो वितन्वतः सतः । बभूव केवलज्ञानं जगत्त्रयावलोककम् ॥ ३० ॥ तत्रैत्य निर्जरा ज्ञान्युत्सवं चक्रुस्तथाssदरात् । यथा तं पश्यतां नृणां ज्ञानमासीन्निरत्ययम् ॥ ३१ ॥ * तत्र भीमोऽगमन्मुक्तिमन्येऽपि बहवः पुनः । साधवश्च ययुः केचित् प्रथमादिसुरालये || ३२ || -फ्र 5 --- -फ्र ॥ श्री औषधविषये पद्मसेननृपकथा || ओसह 'त्ति-व्याख्या - औषधयो रोगाद्यपहाः सन्ति, तथाहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only PS2585252525252525252525 ॥ ८८ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy