SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठिशतक प्लुतां धत्ते पादे गङ्गां नदीं दधत् ॥ ३८ ॥ वासुपूज्यजिनेन्द्रस्य या कल्याणकपञ्चकैः । अतिशेतेऽन्यनगरी, सम्पदाभिर्गरीयसी ॥ ३९ ॥ यनागराश्च नागाश्व, समाना एव रेजिरे । लसद्दानेन हस्तेन सदालिपीतिदायिनः ॥४०॥४ प्रकरणम् ॥ या प्रपारामकासार-विहाराट्टालभूषिता । कस्य नानन्दयेच्चेतः सालङ्कारेव कामिनी ॥ ४१ ॥ तस्यां यथार्थनामाऽभू सटीकं. बुद्धदासाभिधो वणिक् । युवा मुरूपः कुशलः, कलाकेलिरिवापरः॥४२॥ साऽन्यदार्थार्जनायागा-बसन्तपुरपत्तने । वाणिज्यमेव वणिजां, श्रियः, प्रथमकारणम् ॥ ४३ ॥ स तत्र तिष्ठन् भाण्डानां, क्रयविक्रयहेतवे । ददर्शान्येधुरायाती, सुभद्रां भद्रगामिनीम् ॥ ४४ ॥ दध्यौ च किं सुरस्त्र्येषा, किंवा विद्याधराङ्गना। रतिरेवायवा काम-वियुक्तेयमुपस्थिता ॥ ४५ ॥ ततः पार्श्वचरं लोकं, सोऽपृच्छदिति विस्मितः । कैषा कस्य सुता तन्वी, कुमारी वेषभूषिता ॥ ४६॥ श्राद्धस्य जिनदत्तस्य, जिनेन्द्रगुणरागिणः । सुभद्रेति सुतेषेति तमूचुः पार्श्ववर्तिनः ॥४७॥ स श्रावकं विनाऽन्यस्मै, नैनां दित्सति जातुचित् । सम्माप्तयौवनाऽप्येषा, तेनाद्यापि कुमारिका ॥४८॥ तदाकर्ण्य स सात-तत्पाणिग्रहणाग्रहः । कपटभावको जज्ञे बुद्धदासोऽतिबुद्धिमान् ॥ ४९ ॥ शृण्वतः सुगुरूपान्ते, माययाऽपि जिनागमम् । तस्य भाग्यासुदुभेद्यः कर्मग्रन्थिय॑लीयत ॥५०॥ जाततत्त्वमतिः सोऽय, भावतः श्रावकोऽजनि । सुसाधुजनसंसर्गात्तत्कि भद्रं भवेन यत् ॥ ५१ ॥ विज्ञाय जिनदत्तोऽपि, भावभावकतां गतम् । बुद्धदासं ददौ तस्मै, कन्यां कन्याभिलाषिणे ॥५२॥ स्वकुलस्यानुरूपेण महसा महसां निधिः । उपयेमे ततश्चैतां सुभद्रा स शुभेऽहनि ॥५३ ॥ भुञ्जानयोस्तयोर्भोगा-श्चिरं ला ॥४ ॥ तत्रैव तस्थुषोः । अनेहा व्यतिचक्रामा-ऽतिघनः क्षणमात्रवत् ॥ ५४ ॥ सुभद्रासहितोऽन्येधु-भीण्डान्यादाय भूरिशः। For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy