SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir careersirar भविष्याम इत्यादिबुद्धया मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः । सत्साधून् सुविहितयतीन् सत्साधुत्वमेवानुगुणविशेषणेस्तेषां भावयति - सम्यग्यार्गपुषः- भगवत्प्रणीतज्ञानादित्रयरूपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकान् एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह - प्रशान्तवपुषः - बहिरलक्षितरागादिविकारशरीरभाजः एतेनान्तरमपि प्रबलरागाद्यभावं प्रकाशयति । अन्तस्तदभावे वहिः सर्वदा प्रशान्तत्वानुपपत्तेः । प्रीतोल्लसचक्षुषः - द्विष्टानपि प्रतीत्य प्रसन्नोत्फुल्ललोचनाः एतेन बहिः कोपविकारपरिहारमाविष्करोति श्रामण्यद्धि प्राणातिपात विरमणादिपञ्चमहाव्रतविभूतिमुपेयुष आसेदुषः, एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति स्मयमुषः - अहङ्कारतिरस्कारिणः एतेन वाग्मित्वविद्वत्वादावभिमानहेतौ सत्यपि तदभावं प्रकटयति-सत्सूत्रक्रियाभिः कन्दप्र्पकक्षप्लुपः- मन्मथशुष्कतृणदाहिनः एतेन स. मध्ये निरपवादब्रह्मव्रतदाढ द्रढयति । सिद्धान्ताध्वनि-शुद्धागममार्गे तस्थुषः स्थितवतस्तत्परानित्यर्थः । एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति । शमजुषः - क्षमाभाजः एतेनान्तरपि क्रोधनिरासं ज्ञापयति । सत्पूज्यतां - विवेकिजनसेव्यतां जग्मुषः प्रापः एतेन सकलभ्रमणगुणसम्पत्तिमाविर्भावयति निर्गुणानां विवेकिलोकपूजनाऽसम्भवात्। विदुषः विचक्षणान् एतेन स्वसमयपरसमयसारविदुरतां विस्फारयति । न चैवं गुणशालिषु यतिषु द्वेषः कर्त्तुं युक्तः, अणीयसोऽपि तद्द्वेषस्य सकलगुणिगतगुणद्वेषरूपत्वेनानन्तभवभ्रमणनिबन्धत्वात् । यदुक्तम् – सम्यक्त्वज्ञानशीलस्पृश इद्द गुणिनः साधवोऽगाधमेधा, स्तेषु द्वेषो गुणानां गुणिभिरभिदया वस्तुतः स्याद् गुणेषु । सर्वस्थानां गुणानामवगमनमतोऽन्हाय मिध्यात्वमस्मात्त-स्माद् भूयो भवान्धिभ्रमणमिति गुणिद्वेषधीर्व्वज्जनीया ॥ १८४॥सिद्धा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy