SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० श्रीशारीरकमीमांसाभाष्ये [अ. व चिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीर्येशस्यापि का र्यत्वाभ्युपगमादुक्तदोषो दुर्वारः । तस्य निरवयवस्य बहुभवनं च नोपपद्यते। कार्यत्वानुपयुक्तांश स्थितिश्च नोपपद्यते। तस्मादसमञ्जसमिवाभाति | अतो ब्रह्मकारणत्वं नोपपद्यते ॥ इत्याक्षिप्ते समाधत्ते — श्रुतेस्तु शब्दमूलत्वात् । २ । १ । २७ ॥ ī तुशब्द उक्तदोषं व्यावर्तयति । नैवमसामञ्जस्यम् ; कुतः श्रुतेः श्रुतिस्तावन्निरवयवत्वं ब्रह्मणस्ततो विचित्रसर्गे चाह । श्रीतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थः । ननुच श्रुतिरपि अग्निना सिञ्चेदितिवत् परस्प रान्वयायोग्यमर्थं प्रतिपादयितुं न समर्था; अत आह- शब्दमूलत्वादिति । शब्दकममाणकत्वेन सकलेतरवस्तुविसजातीयत्वादस्यार्थस्य विचित्रशक्तियोगो न विरुद्ध्यत इति न सामान्यतो दृष्टं साधनं, दूषणं वा अर्हति ब्रह्म ॥ आत्मनि चैवं विचित्राच हि । २ । १ । २८ ॥ किंच — एवं वस्त्वन्तरसंबन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ दृष्टा धर्मास्तद्विसजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते । तदप्रसक्तिच भावस्वभाव वैचित्र्यादित्याह-विचित्राथ हिइति ; यथा अग्निजलादीनामन्योन्यविसजातीयानामौष्ण्यादिशक्तयश्च विसजातीया दृश्यन्ते ; तद्वलोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टास्सहस्रशः शक्तयस्सन्तीति न किञ्चिदनुपपन्नम् । यथोक्तं भगवता पराशरेण - १" निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते " इति सामान्यदृष्टया परिचोद्य " शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भा --- १. वि. पु. अं. १- अ. ३-१-२-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy