SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] उपसंहारदर्शनाधिकरणम् . ५९ जननसमर्थस्यापि वस्तुनः तत्तत्कार्यजनने अनेककारकोपसंहारदर्शनाद्विचित्रजगजननसमर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्तेः । राद्धान्तस्तुक्षीरस्य दधिभावेऽनन्यापेक्षत्वदर्शनानानेककारकोपसंहारनियमो दृश्यत इति ब्रह्मणोऽनन्यापेक्षस्यैव कारणत्वं सम्भवत्येव। रसूत्रमपि व्याख्यातम्। 'क्षीरवद्धि' इतिप्रसिद्धवनिर्देशः चोद्यमान्द्यपरः ॥ २४ ॥ देवादिवदपि लोके ॥ यथा देवादयः स्वेखे लोके स्वापेक्षितानि स्वसकल्पादेव सृजन्ति ; तथा ब्रह्मापि । देवादेश्शास्त्रावसेयशक्तितया ब्रह्मतुल्यत्वेऽपि देवादिग्रहणं ब्रह्मणो विचित्रशक्तित्वस्य सुग्रहणायेति मन्तव्यम् ॥ २५ ॥ इति वेदान्तदीपे उपसंहारदर्शनाधिकरणम् ॥ ८ ॥ --(श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम् ॥९॥).. कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा।२।१२६॥ ___२" सदेव सोम्येदमग्र आसीत् " ३"इदं वा अग्रे नैव किश्चनासीत् ' ४" आत्मा वा इदमेक एवाग्र आसीत् " इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवं ब्रह्मैवासीदित्युक्तम् । तदविभागमेकं निरवयमेव ब्राह्म ५“बहु स्याम्" इति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञविभागं चाभवदितिचोक्तम् । एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम्। अथ चिदंशः क्षेत्रज्ञविभागविभक्तः, अचिदंशश्वाकाशादिविभागविभक्तः इत्युच्यते, तदा १“स देव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्" "ब्रह्मैकमेव""आत्मैकएव"इत्येवमादयः कारणभूतस्य ब्रह्मणो निरवयवत्ववादिनश्शब्दाः कुप्येयुःबाधिता भवेयुः।यद्यपि सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्,स्थूलचिद १. सूत्रं तु निगदव्याख्यातम् . पा ॥ २.छा. ६-२-१॥--.३ २.अष्ट. २-प्र. ८-अनु॥ ४. ऐतरेय. १-१-१॥-५. छा. ६-२-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy