SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्राणोत्पत्त्यधिकरणम्. शुद्धात्मज्ञानगी परभजनभिदामङ्गभेदांश्च वक्ष्यन्मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम् ॥ ३२ कुप्तियोमादिकेऽपि क्रमभुवि च विभोः प्राच्यतत्त्वैर्विशिष्टाजीवस्यौपाधिको तु प्रजननविलयौ चिद्धनज्ञात्तास्य । कर्तृत्वं पारतन्त्रयं गुणतनुनयतो विश्वरूपांशताचेत्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त ॥ ३३ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां द्वितीयस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ --(अथ द्वितीयस्याध्यायस्य चतुर्थः पादः ॥)... उपोद्धातः॥ अक्षायुत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दन्तत्संख्यादेः परीक्षाप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न । एतेष्वब्रह्मकार्य किमपि कथयतां बाधनेनार्थवत्त्वातत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात् ॥ १ अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणान्तेजोबनोक्तनीतिन्द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ । संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात् प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः॥ १ प्राणोत्पत्त्यधिकरणम् ॥१॥ अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषामात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः। मैवन्तत्सृष्टिदाढर्याद्वहुवचनमिदं पाशनीत्यैव नेयं पाणर्षित्वे परात्मन्यपि हि सुघटिते तनिरुक्त्यादिसाम्याव ॥३ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy