SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः अधिकरणसारावली. --(भथ द्वितीयस्याध्यायस्य प्रथमः पादः-~- स्मृत्यधिकरणम् ।। तत्ताहक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धियद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की । स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं कार्यत्वं यस्य यादृक्श्रुतिभिरवगतं तस्य तत्तादृशश्च ॥ पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै । हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वायोगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय ॥ २ तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्ध तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युजिहीते परोऽद्य । इत्थं सत्यत्र तत्तत्स्मृतिनय' पृतनातिक्रमन्तत्तदः प्रत्यस्त्रैवारयित्वा द्रढयति चलितं पादतः प्राच्यमर्थम् ॥ ३ निर्णीतं कर्मकाण्डे स्मृतिनयविहतौ निश्चलत्वं श्रुतीनां चर्चा तत्सिद्धयेऽसौ पुनरिति विफलः स्याद्वतीयाद्यपादः । मैवं गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधतायामातोक्क्या तर्कतश्च क्षममनुसरणं पश्यतो ह्यत्र भङ्गः॥ ४ द्वाभ्यां स्मृत्या विरोध परिहरति ततस्त्वष्टभिस्तर्कबाधं तेनोपादानभावं द्रढयति तु विभोः कर्तृतान्तवयं च । १. कलिता इति चिन्तामणौ व्याख्खातं ॥ •63 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy