________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કર
वेदान्तसारे
[अ. ४.
च्छति, १" ते ब्रह्म लोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति
श्रुतेः ॥ ९ ॥
स्मृतेश्व ॥ २" ब्रह्मणा सह ते सर्वे" इत्यारभ्य "प्रविशन्ति परं पदम् " इति स्मृतेश्च ॥ १० ॥
परं जैमिनिर्मुख्यत्वात् || परमुपासीनानिति जैमिनिः, ३ “ब्रह्म गमयति" इति तत्रैव मुख्यत्वात् ॥ ११ ॥
दर्शनाच्च ॥। ४‘अस्माच्छरीरात्समुत्थाय परञ्जयोतिरुपसम्पद्य” इति क्षुते ॥ १२ ॥
नच कार्ये प्रत्यभिसन्धिः ।। ५ प्रजापतेस्सभाम्” इति प्रत्यभिसन्धि ध न कार्ये, प्रजापतिशब्दस्य ६ " पति विश्वस्य" इत्यादिश्रुतेः परस्मिन्नेव मुमुख्यत्वात् ; ब्रह्मलोकशब्दश्च कर्मधारयवृत्त्या तत्रैवेत्यभिप्रायः । ७' ' ते ब्रह्मलोके" इति तु श्रुतिः ब्रह्मैव लोक इति परब्रह्मविषयैव । २ " ब्रह्मणा सह ते सर्वे" इति स्मृतिश्च ८" तदुपर्यपि " इति न्यायेन चतुर्मुखलोकस्थोपासनविषया ॥ १३ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयधा च दोषात्तत्क्रतुव || प्रतीकालम्बना हि-नामादिप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपपर्यन्तं सर्वं चिदचिद्वस्तुजातं ब्रह्मदृष्टया स्वरूपेण वा ये उपासते, ते; अप्रतीकालम्बना:
तद्व्यतिरिक्ताः, ये पञ्चाग्निविदः, ये च परं ब्रह्मोपासते; तानयत्यर्चिरादिरिति भगवान् बादरायणो मन्यते । कार्यमिति पक्षे, परमेवेति च पक्षे सकलोपनिषद्विरोधरूपदोषः प्रसज्यते । कार्यपक्षे ९ " ब्रह्म गमयति " १०" परं ज्योतिरुपसम्पद्य" इत्याद्याः प्रकुप्येयुः । परमेवेति पक्षे ११" य एवमेतद्विदुर्ये चेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति" इति श्रुतिः प्रकुप्येत । कार्यपक्षे तत्क्रतुन्यायश्च विरुज्यते । अर्चिरादिना गतानां हि ब्रह्मप्राप्तिरपुनरावृत्तिश्च श्रूयते । पञ्चाग्निविदस्तु प्रकृतिवियुक्तात्मस्वरूपं १२" य आत्मनि तिष्ठन् "
१. तै. ना. १० - अनु- २४ ॥ -- २. कूर्मपुराणे - पूर्वख. १२-२६९ ॥ - - ३. छा. ४१५-६ ॥ - ४. छा. ८-३-४ ॥ - ५. छा. ८-१४-१५ - ६. तै. ना. ११ - अमु ॥ - ७. तै. ना, १०-अनु- २४ ॥ - ८ शारी. १.३-२५ ॥ - ९. छा. ५-१०-२ ॥–१०. छा. ८-३-४ ॥ - ११. ८-२-१५ ॥ - १२. . ५-७-२२ मा पा ।
For Private And Personal Use Only