SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] कार्याधिकरणम् ४६१ तत्क्रतुन्यायात्मकृतिविनिर्मुक्तब्रह्मात्मकात्मानुसन्धानं सिद्धम् । नामादिप्राणपर्यन्तप्रतीकालम्बनानां तूभयविधश्रुतिसिद्धोपासनाभावादचिन्मि - श्रोपासने तत्क्रतुन्यायाचार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते॥१४॥ तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह विशेषञ्च दर्शयति ।४।३॥१५॥ १“यावन्नान्नो गतं तत्रास्य यथाकामचारो भवति"इत्यादिका श्रुतिःरनामादिप्राणपर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेपंच दर्शयति ; तस्मादचिन्मिभं केवलं वाचिद्वस्तु ब्रह्मदृष्टया तद्वियोगेन च य उपासते, न तान् नयति, अपितु परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम् ॥ इति श्रीशारीरकमीमांसाभाष्ये कार्याधिकरणम् ॥ ५ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये ___ चतुर्थस्याध्यायस्य तृतीयः पादः ॥३॥ वेदान्तसारे-कार्य बादरिरस्य गत्युपपत्तेः ॥ कार्य-हिरण्यगर्भमुपासीनानर्चिरादिर्नयति, अस्यैव गत्युपपत्तेः । न हि सर्वगतं परं ब्रह्मोपासीनानां गतिरस्तीति बादरिः मेने ॥६॥ विशेषितत्वाञ्च ॥ ३"पुरुषोऽमानव एत्य ब्रह्मलोकार गमयति" "प्रजापतेस्समां वेश्म प्रपद्ये" इति च विशेषितत्वात् हिरण्यगर्भमेव ॥ ७॥ सामीप्यात्तु तद्यपदेशः।। ५" ब्रह्म गमयति" इति ब्रह्मव्यपदेशस्त. त्सामीप्यात् । अस्य ६" यो ब्रह्माणं विदधाति पूर्वम्" इति सामीप्यमस्ति हि ॥ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिश्रुत्यविरोधः, हिरण्यगर्भलोकात्यये तध्यक्षेण सहातः परं ग १. छा. ७.१-५॥-२. नामादिप्रतीकमुपा. पा ॥ ३. बू. ८.२-१५॥-४. छा. ८.१४-१ -५. छा. ५-१०-२ ॥-६. श्वे. ६-१८॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy