SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --(श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम् ॥४॥r.. एतेन शिष्टापरिग्रहा अपि व्याख्याताः।२।१॥१३॥ शिष्टाः परिशिष्टाः, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहाः शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहाः। एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपगेन परिशिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिक्षुपक्षाः क्षपिता वेदितव्याः। परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुमित्यधिकाशङ्का ॥ तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुखरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्वज्ञानात्मकत्वार्थात्मकत्वक्षणिकत्वनित्यत्वैकान्त - त्वानेकान्तत्वसत्यासत्यात्मकत्वादिविसंवाददर्शनाच्चापतिष्ठितत्वमेवेतिप - रिहारः ॥१३॥ इति श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम् ॥ ४ ॥ वेदान्तसारे-एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥ एतेन सासथस्मृतिनिराकरणहेतुना तर्काप्रतिष्ठतत्वादिना परिशिष्टाश्च कणभक्षाक्षपादक्षपणकादिस्मृतयो निराकृताः ॥१३॥ इति वेदान्तसारे शिष्टापरिग्रहाधिकरणम् ॥ ४ ॥ वेदान्तदीपे-एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ न परिगृह्यन्ते वैदिकैरित्यपरिग्रहाः ; शिष्टाश्च ते अपरिग्रहाश्च शिष्टापरिग्रहाः ; एतेन तर्काप्रतिष्ठानलक्षणकापिलस्मृतिनिरसनहेतुना परिशिष्टाः कणभक्षादिस्मृतयोऽपि निरस्ता व्याख्याताः । परमाणुकारणवादस्सर्वसम्मत इति न तेषां तर्कस्याप्रतिष्ठितत्वमित्यधिकाऽशङ्का । तर्कमूलत्वाविशेषात् परमाणूनां शून्यत्वाद्रव्यत्वादिविवादाञ्च, तर्कस्याप्रतिष्ठितत्वमेवेति परिहारः ॥ १३ ॥ इति वेदान्तदीपे शिष्टापरिग्रहाधिकरणम् ॥ ४ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy