________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[अ. २. ण्डत्वघटत्वावलमव्यवत्सर्वशत्वमपहतपाप्मत्वमशत्वं कर्मवश्यत्वं च ब्रह्मणः प्रसज्यत इति विरुद्धार्थाभिधानावेदान्तवाक्यमसमअसं स्यात् । अपीताविति प्रदर्शनार्थम्। जगतो ब्रह्मणि अपीतौ ब्रह्मण उत्पत्तावपीत्यर्थः। अपीतिः अप्ययः।
न तु दृष्टान्तभावात् । न ब्रह्मण्यत्वादयः प्रसज्येरन् ; अत एव न वेदान्तानामसामञ्जस्यम्, तुशब्दः प्रसक्तस्यासम्भावनीयतां द्योतयति । एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थायां दृष्टान्तसद्भावात् , यथा 'मनुष्यो जातो बालो युवा स्थविरो भवति' इत्यत्र मनुष्यशरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्मबालत्वयुवत्वस्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञानसुखदुःखादयश्च न शरीरे ; एवं चिदचिवस्तुशरीरकस्य परस्य ब्रह्मणः कार्यकारणोभयावस्थान्वयेऽपि कर्मवश्यत्वाशत्वादयः शरीरभूतचिदचिद्वस्तुगताः । अपहतपाप्मत्वसर्वज्ञत्वादयः परमात्मन्यात्मभूतेऽवतिष्ठन्ते । सर्वावस्थस्य चिदचिवस्तुनो ब्रह्मशरीरत्वम् , ब्रह्मणश्च तदात्मत्वम् , १ "यस्य पृथिवी शरीरम्" इत्याद्यन्तर्यामिब्राह्मणादिष्वव गतमिति न कश्चिद्विरोधः॥९॥
स्वपक्षदोषाच ॥ न केवलं ब्रह्मकारणवादस्य निर्दोषतया तत्समाश्रयणम्,प्रधानकारणवादे दोषाश्चैतत्परित्यज्य स एव समाश्रयणीयः । प्रधानकारणवादे हि निर्विकारस्य चिन्मात्रस्य पुरुषस्य प्रकृतिसन्निधानकृततद्धर्माध्यासमूला जगत्प्रवृत्तिरभ्युपगम्यते; तत्र प्रकृतिसद्भावमात्रे सन्निधाने सति मुक्तस्थापि तद्धर्माध्यासप्रसङ्गः ; विकारविशेषे सति सन्निधाने कृतमस्य विकारस्याध्यासपूर्वकत्वानाध्यासस्य विकारो हेतुरिति विरुद्धार्थाभिधानादसामञ्जस्यदोष इति न तत्पक्षसम्भवगन्धः ॥१०॥
तर्काप्रतिष्ठानादपि ॥ कापिलतन्त्रस्य तर्कमूलत्वेन शाक्यादितर्कप्रतिहततयाऽस्य तर्कस्याप्रतिष्ठितत्वाञ्च न तत्पक्षसम्भवः ॥११॥
अन्यथाऽनुमेयमितिचेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ इतः पूर्व विद्यमान स्त्रकैरप्रतिहतत्वं यथा सम्भवति, तथा प्रधानकारणवादमनुरमन्यामहे इति चेत् , तथापि तर्काप्रतिष्ठानदोषात् अनिर्मोक्षप्रसङ्गो दुर्वारः ; त्वदधिककुतकंकुशलसद्भावसम्भवात् ॥१२॥
इति वेदान्तदीपे विलक्षणत्वाधिकरणम् ॥ ३ ॥
१. सुबाल. ७-खं ॥
२. मास्यामहे. पा॥
For Private And Personal Use Only