SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८६ श्रीशारीरकमीमांसाभाष्ये [म. ३. विशेषानुग्रहश्च ।। आश्रमानियत धर्मविशेषेण विद्यानुग्रहश्च श्रूयते १"तपसा ब्रह्मचर्येण श्रद्धया विद्यया चात्मानम् ” इत्यादिना ॥ ३८ ॥ अतस्त्वितरज्ज्यायो लिङ्गाच्च ।। अनाश्रमित्वादाश्रमित्वं ज्यायः, धर्मभूयस्त्वात्, २" अनाश्रमी न तिष्ठेत्तु” इति स्मृतेश्व ॥ ३९ ॥ इति वेदान्तसारे विधुराधिकरणम् ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे - अन्तरा चापि तु तद्दृष्टेः || विधुरादीनामनाश्रमिणां प्रह्मविद्यायामधिकारोऽस्ति, नेति संशयः । आश्रमधर्मेतिकर्तव्यता कत्वाद्विद्यायाः तदभावात्तेषामधिकार इति पूर्वः पक्षः । राद्धान्तस्तु- ऊर्ध्वरेतस्स्विव रैक्वादिवाश्रमिषु विद्यानिष्ठत्वदर्शनादाश्रमानियतैर्जपोपवासदानादिभिरेव तेषां विधानुग्रहो भवतीत्यस्त्येवाधिकारः । सूत्रार्थस्तु तुशब्दात्पक्षो व्यावृत्तः । चशदोऽवधारणे। अन्तराऽपि - आश्रमानन्तरा वर्तमानानामनाश्रमिणामप्यधिकारोऽस्त्येव । कुतः ? तद्दृष्टेः-रैक्वादिषु विद्यानिष्ठत्वदृष्टेः ॥ ३६ ॥ अपि स्मर्यते । अपि च अनाश्रमिणामपि जपादिभिरेव विद्यानुग्रहः स्मर्यते ३" जप्येनापि च संसिध्येद्ब्राह्मणो नात्र संशयः" इत्यादिना ॥ ३७ ॥ विशेषानुग्रहश्व || आश्रमानियतधर्मविशेषेण विद्यानुग्रहश्श्रूयते च १ "तपसा ब्रह्मचर्येण श्रद्धया विद्यया चाऽऽत्मानमन्विच्छेत्" इति ॥ ३८ ॥ अतस्त्वितरज्ज्यायो लिङ्गाच्च । अतः अनाश्रमित्वादितरत्-आश्रमत्वं ज्यायः, धर्मभूयस्त्वात् ; लिङ्गाच स्मृतेश्चेत्यर्थः २" अनाश्रमी न तिष्ठेल दिनमेकमपि द्विजः " इति हि स्मर्यते । तस्मादनाभ्रमित्वेन विद्यानिष्ठत्वमापद्विषयमित्यभिप्रायः ॥ ३९ ॥ इति वेदान्तदीपे विधुराधिकरणम् ॥ ९ ॥ ( श्रीशारीरकमीमांसाभाष्ये तद्भताधिकरणम् ॥ १० ॥ ०० तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रपाभावेभ्यः । ३ । ४ । ४०॥ नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्याया - १. प्रश्न. १-१० ॥ २ ॥ - ३, मनु, २-८७ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy