SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] आनन्दाद्यधिकरणम्. २७९ पूर्वत्रापि १" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः " इति परमात्मन एव बुद्ध्याऽवधारितत्वात् अन्नमयादनन्तरे प्राणमये प्रथमं परमात्मबुद्धिरवतीर्णाः तदनन्तरं च प्राणमयादनन्तरे मनोमये;ततो विज्ञानमये; तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिस्तदन्तराभावादुत्तराच्च २" सोऽकामयत" इति वाक्यात्प्रतिष्ठितेत्युपक्रमेऽप्यपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वयः इति निरवद्यम् ॥ १७ ॥ इति श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम् ॥ ४ ॥ वेदान्तसारे - आनन्दादयः प्रधानस्य || अभेदादिति वर्तते; ब्रह्मस्वरूपनिरूपणान्तर्गतामलत्वज्ञानानन्दादयो गुणाः सर्वासु परविद्यासूपसंहार्याः, गुणिनो ब्रह्मणस्सर्वत्राभेदात् ॥ ११ ॥ प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे ॥ ३" तस्य प्रियमेष शिरः" इति प्रियशिरस्त्वादीनामप्राप्तिः, ब्रह्मगुणत्वाभावात्तेषाम् । शिरःपक्षादिभेदे ब्रह्मगुणे सति ब्रह्मण उपचयापचयप्रसक्तिः ॥ १२ ॥ इतरे त्वर्थसामान्यात् || आनन्दादयः स्वरूपनिरूपणान्तर्गततया ग्र समाना इत्युपसंहार्या एव ॥ १३ ॥ आध्यानाय प्रयोजनाभावात् || प्रियशिरस्त्वाद्युपदेशः ब्रह्मणोऽनुचिन्तनार्थः, प्रयोजनान्तराभावात् ॥ १४ ॥ आत्मशब्दाच्च || ३" अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्दाच शिरःपक्षादयो न ब्रह्मगुणाः ॥ १५ ॥ आत्मगृहीतिरितरवदुत्तरात् || परमात्मन एवात्मशब्देन ग्रहणमिति २" सोऽकामयत बहु स्यां प्रजायेय" इत्युत्तरात् बहुभवनसङ्कल्पाभिधायिनो वाक्यादवगम्यते ; ४' ' आत्मा वा इदमेक एवात्र आसीत्" इत्यात्मशब्दादिवत् ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ पूर्वत्र प्राणमयादिष्वात्मशब्दान्वयात्कथमुत्तरनिर्णय इति चेत् - १" आत्मन आकाशस्सम्भूतः" इत्यवगत१. तै. आन. १- अनु. २ ॥–२, तै. आ. ६-अनु. २ ॥ - ३. तै. आन-५-२ ॥ - ४. ऐतरेय. १-अनु. १ खं. १ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy