SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૭૮ श्रीशारीरकमीमांसाभाष्ये (अ. ३. त्यादिना बुद्धावारोप्यते; यथा च प्राणमयमनोमयविज्ञानमयाः १ " तस्य प्राण एव शिरः" इत्यादिना प्राणाद्यवयत्रैर्बुद्धावारोप्यन्तेः एवमेभ्योऽर्थान्तरभूतस्तदन्तरात्मा आनन्दमयोऽपि प्रियमोदादिभिरेकदेशैः शिरःप्रभृतित्वेन रूपितैराध्यानाय बुद्धावारोप्यते । एवमानन्दमयोपलक्षणत्वात्मियशिरस्त्वादीनां न सर्वदा आनन्दमयप्रतीतावनुवर्तन्ते ॥ १४ ॥ आत्मशब्दाच्च । ३ । ३ । १५ ॥ २" अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्देन निर्देशादात्मनश्य शिरःपक्षपुच्छासम्भवात्प्रियशिरस्त्वादयस्तस्य सुखप्रतिपत्यर्थ रूपणमामिति गम्यते ॥ १५ ॥ ननु ३ " अन्योऽन्तर आत्मा प्राणमयः " ४ " अन्योऽन्तर आत्मा मनोमयः”इत्यात्मशब्दस्यानात्मस्वपि पूर्व प्रयुक्तत्वात् २ " अन्योऽन्तर आत्माssनन्दमयः" इत्यात्मशब्दस्य परमात्मविषयत्वं कथं निश्चीयते तत्राह - आत्मगृहीतिरितरवदुत्तरात् । ३ । ३ । १६ ॥ २" अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यत्रात्मशब्देन परमात्मन एव ब्रहणम्; इतरवत् — यथेरवाद " आत्मा वा इदमेक एवाग्र आसीत स ईक्षत लोकान्तु सृजै " इत्यादिष्वात्मशब्देन परमात्मन एव ग्रहणम् ; तद्वत् । कुत एतत् उत्तरात् - ६" सोऽकामयत बहु स्यां प्रजायेय" इत्यानन्दमयविषयादुत्तराद्वाक्यात् ॥ १६ ॥ अन्वयादिति चेत्स्यादवधारणात् । ३ । ३ । १७ ॥ पूर्वत्व प्राणमयादिष्वनात्मस्वात्मशब्दान्वयदर्शनानोत्तरान्निचेतुं शक्यत इति चेत् - स्यादवधारणात् - स्यादेव निश्वयः कुतः १ अवधारणात् १. वै. आ. २- अनु. ३–२, तै, आन. ५-अनु. २ ॥ - ३, तै. आन, २-१ ४. वै. मान. ३-२ ॥ - ५. ऐतरेष १-१-१॥ - ६. तै. आन. ६-२ ॥ - For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy