SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] अनिष्टादिकार्यधिकरणम् . २११ ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः । तत्राह___ तत्रापि तव्यापारादविरोधः॥ सप्तस्वपि रौरवादिलोकेषु यमव्यापारादेव गमनाघमवश्यताया अविरोधः । अतः पापिनामपि यमयातना अनुभूय चन्द्रारोहावरोहाववर्जनीयौ ॥१६॥ इति प्राप्त उच्यते विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ तुशब्दः पक्षव्यावृत्त्यर्थः; न च पापकर्मणामर्चिरादिना ब्रह्मगमनं, धूमादिना चन्द्रगमनं च सम्भवति, तयोर्विद्याकर्मणोः फलत्वात् । कथमिदमवगम्यते तत्फलत्वम् ?; इति प्रकृतत्वात्-इत्थं प्रकृतत्वात् । विद्याकर्मणी हि प्रकृस्य तत्फलत्वेन गतिद्वयं प्रतिपाद्यते १"तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति" इति, २“अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति" इति च । पापिनां विद्यारहितत्वेन ब्रह्मगमनाभाववत् पुण्यकर्मरहितत्वेन चन्द्रगमनमपि न सम्भवतीत्यर्थः ॥ १७ ॥ ३“पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति पञ्चमाहुत्या देहारम्भश्रवणात् तस्याश्चन्द्रगमनपूर्वकत्वेन पापिनामपि देहारम्भाय चन्द्रगमनमवश्यम्भावीत्याशङ्कयाह-- न तृतीये तथोपलब्धेः॥ केवलपापकर्माणः - तृतीयस्थानम् ; न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्यपेक्षाऽस्ति ; तथोपलब्धेः-४"वेत्थ यथा केनासौ लोको न सम्पूर्यते" इति धुलोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने ५"अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भ. वन्ति जायखनियखेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते'' इति तृतीयस्य स्थानस्य द्युलोकाप्राप्तिश्रवणात् तस्य देहारम्भे पञ्चमाहुत्यनपेक्षत्वं [पलभ्यते ॥ १८॥ स्मयतेऽपि च लोके ॥ पुण्यकर्मणामपि केषाञ्चिद्दौपद्यादीनां देहारम्भे पञ्चमाहुत्यनपेक्षत्वं शिष्टलोकेऽपि च स्मर्यते ॥ १९॥ दर्शनाच्च ॥ श्रुतावपि दृश्यते केषाञ्चिदेहारम्भे पञ्चमाहुत्यनपेक्षत्वं १. छा. ५-१०.१॥-२. छा. ५-१०-३॥-३. छा. ५-९-२॥--४.छा. ५-३-३॥ -५. छा, ५-१०.८ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy