SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१० www.kobatirth.org वेदान्तदीपे अ. ३. स्मर्यतेऽपि च लोके ॥ लोके च द्रौपद्यादीनां पुण्यकर्मणामपि पञ्चमाहुत्यनपेक्ष देहारम्भस्स्मर्यते ॥ १९ ॥ इत्यर्थः ॥ २१ ॥ Acharya Shri Kailassagarsuri Gyanmandir दर्शनाच्च ॥ तथा श्रुतावपि दृश्यते १ " भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिजम्" इति स्वेदजोद्भिज्जयोस्तदनपेक्षत्वम् ॥ २० ॥ तृतीयशब्दावरोधस्संशोकजस्य || स्वेदजस्य उद्भिजशब्देन सङ्ग्रह इति वेदान्तसारे अनिष्टादिकार्यधिकरणम् ॥ ३ ॥ वेदान्तदीपे - अनिष्टादिकारिणामपि च श्रुतम् ॥ विहिताकरणप्रतिषिद्धसेवारताः पापकर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशयः । गत्वैव निवर्तन्त इति पूर्वः पक्षः, २" ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इति सर्वेषामविशेषेण चन्द्रगमनश्रुतेः । रा द्धान्तस्तु - ३ 'अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति" इति धूमादिना चन्द्रगमनस्य पुण्यकर्मफलत्वश्रवणात् तद्रहिताः पापकर्माणो न गच्छन्ति — इति । २" येवैकेच" इति वचनं सर्वेषां पुण्यकर्मणां चन्द्रगमनविषयम् । सूत्रार्थस्तु - अनिष्टादिकारिणामपिच श्रुतम् - अनिष्टादिकारिणामपि इष्टापूर्ताद्यकुर्वतां पापिनामपि चन्द्रगमनमस्ति, २ "ये वै केचास्माल्लोकात्प्रयन्ति” इति यतोऽविशेषेण श्रुतम् ॥ १२ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ इयांस्तु विशेषः, संयमने- यमशासने पापफलमनुभूय इतरेषां पापिनां चन्द्रारोहावरोहा ; कुतः ? तद्वतिदर्शनात् पापिनां यमसदनगतिदर्शनात् ४'' वैवस्वतं सङ्गमनं जनानाम्" इत्यादौ ॥ १३ ॥ स्मरन्ति च ॥ ५" सर्वै चैते वशं यान्ति यमस्य भगवन्किल" इति पराशरादयस्स्मरन्ति च ॥ १४ ॥ अपि सप्त || सप्तापि रौरवादयो लोकाः पापिनां गन्तव्यत्वेन स्मर्यन्ते ॥ १५ ॥ १ छा. ६-३-१ ॥―२. कौषी. १. अ. २॥ -- ३. डा. ५-१०-३॥ - ४. आरण. २. प्र. १. प ॥ ५. वि. पु. ३-७-५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy