SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२.] एकस्मिन्नसम्भवाधिकरणम्. १०७ श्राष्टविधः-घातिकर्मचतुष्टयमघांतिकर्मचतुष्टयं चेति । तत्राय जीवगुणानां स्वाभाविकानां ज्ञानदर्शनवीर्यसुखानां प्रतिघातकरम् । अपरं शरी रसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम्। निर्जरं मोक्षसाधनमर्हदुपदेशावगतं तपः । संवरो नामेन्द्रियनिरोधः समाधिरूपः । मोक्षस्तु निहत्तरागादिक्लेशस्य स्वाभाविकात्मस्वरूपाविर्भावः । पृथिव्यादिहेतुभूताश्चाणवो वैशेषिकादीनामिव न चतुर्विधाः । अपित्वेकखभावाः । पृथिव्यादिभेदस्तु परिणामकृतः । सर्व च वस्तुजातं सत्त्वासत्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैकान्तिकमिच्छन्ति- स्यादस्ति,स्यान्नास्ति, स्यादस्तिचनास्तिच, स्यादवक्तव्यम्, स्यादस्तिचावक्तव्यं च, स्यानास्तिचावक्तव्यंच, स्यादस्तिच नास्तिचावक्तव्यं चेति सर्वत्र सप्तभङ्गीनयावतारात् । सर्व वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्व'नित्यत्वाद्युपपादयन्तिः पर्यायात्मना च तद्विपरीतम् । पर्यायाश्च द्रव्यस्यावस्थाविशेषाः। तेषां च भावाभावरूपत्वात्सत्त्वासत्त्वादिकं सर्वमुपपन्नम् इति ॥ । अत्राभिधीयते-नैकस्मिन्नसम्भवात् इति। नैतदुपपद्यतेः कुतः ? एकस्मिन्नसम्भवात्-एकस्मिन्वस्तुनि अस्तित्वनास्तित्वादेविरुद्धस्य च्छायातपवद्युगपदसम्भवात्। एतदुक्तं भवति-द्रव्यस्य तद्विशेषणभूतपर्यायशब्दाभिधेयावस्थाविशेषस्य च पृथक्पदार्थत्वान्नैकस्मिन्विरुद्धधर्म समावेशस्सम्भवनि-इति । तथाहि-एकेनास्तित्वादिनाऽवस्थाविशेषेण विशिष्टस्य तदानीमेव न तद्विपरीतनास्तित्वादिविशिष्टत्वं सम्भवति । उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम् , तद्विपरीतं च नित्यत्वं नस्मिन् कथं समवैतिः विरोधिधर्माश्रयत्वं च भिन्नत्वम् तद्विपरीतंचाभिन्नत्वं कथं वा तस्मिन् समवैति?; यथाऽश्वत्वमहिषत्वयो १. नित्यत्वान्युपपदायन्ति. पा ।।--२. समावेशसम्भवइति. पा ।। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy