SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये शाय; अथ प्रकारान्तरेण प्रतिज्ञाय । सर्वथापि सर्वशून्यत्वानुपपत्तेस्वाभिमतासिद्धिः, सदसद्भावयोर्विद्यमानवस्तुधर्मतोपपादनात् ॥ ३०॥ इति वेदान्तदीपे सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥ ---(श्रीशारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् ॥).. नैकस्मिन्न सम्भवात् । २॥ २॥ ३१॥ निरस्तास्सौगताः। जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैनपक्षः प्रतिक्षिप्यते । ते किल मन्यन्ते-जीवाजीवास्मकं जगदेतनिरीश्वरम् ; तच्च षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि । तत्र जीवाः—बद्धाः, योगसिद्धाः, मुक्ताश्चेति त्रिविधाः। धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्यापी । अधर्मश्च स्थितिहेतुभूतो व्यापी । पुद्गलो नाम वर्णगन्धरसस्पविद्दव्यम् । तच्च द्विविधम्-परमाणुरूपम् , तत्सङ्घातरूपं च पवनज्वलनसलिलधरणीतनुभुवनादिकम् । कालस्तु अभूदस्तिभविष्यतीति व्यवहारहेतुरणुरूपो द्रव्यविशेषः । आकाशोऽप्येकोऽनन्तप्रदेशश्च । तेषु चाणुव्यतिरिक्तद्रव्याणि पश्चास्तिकाया इति च संगृह्यन्ते-जीवास्तिकायः, धर्मास्तिकायः, अधर्मास्तिकायः, पुद्गलास्तिकायः, आकाशास्तिकायः-इति । अनेकदेशवर्तिनि द्रव्येऽस्तिकायर शब्दः प्रयुज्यते। जीवानां मोक्षोपयोगिनमपरमपि सङ्घहं कुर्वन्ति-जीवाजीवासवबन्धनिर्जरसंवरमोक्षाः-इति । मोक्षसङ्ग्रहेण मोक्षोपायश्च गृहीतः । स च सम्यग्ज्ञानदर्शनचारित्ररूपः । तत्र जीवस्तु-ज्ञानदर्शनसुखवीर्यगुणः। अजीवश्च जीवभोग्यवस्तुजातम् । आस्रवः तद्भोगोपकरणभूतमिन्द्रियादिकम् । बन्ध १, व्यतिरिक्तानि द्रव्याणि. पा।। २. शब्दः । जीवानां. पा॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy