SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] महद्दीर्घाधिकरणम्. स्स्युः। तत्परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे पूर्वोक्तदोष इत्युभयधा च दोषादसमञ्जसम् ॥ १५ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा । २।२।१६ ॥ कापिलपक्षस्य श्रुतिन्यायविरोधपरित्यक्तस्यापि सत्कार्यवादादिना कचिदंशे वैदिकैः परिग्रहोऽस्ति, अस्य तु काणादपक्षस्य केनाप्यंशेनापरिग्रहादनुपपन्नत्वाच्चात्यन्तमनपेक्षव निःश्रेयसार्थिभिः कार्या ॥ इति महद्दीर्घाधिकरणं समाप्तम् ॥ २ ॥ वेदान्तसारे-महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ।। असमञ्जसमिति वर्तते, वाशब्दाश्चार्थे , हस्वपरिमण्डलाभ्यां महद्दीर्घवत् --यणुकत्र्यणुकोत्पत्तिवदन्यश्च तन्मतं सर्वमसमञ्जसम् । अवयवास्स्वकीयैषड्रभिः पार्श्वेस्संयुज्यमाना हि पृथुतरमवयविनमारभन्ते , परमाणूनान्निरवयवत्वेन पार्थ्यानभ्युपगमात् , पााण्यनपेक्ष्य संयुज्यमानानां न पृथुतरद्रव्यारम्भकत्वस म्भवः॥१०॥ उभयधापि न कर्मातस्तदभावः ॥ अणुगताधकर्मासम्भवात्तत्कृताणुसंयोगाभावः; क्षेत्रज्ञादृष्टानां विपाकापेक्षत्वेऽपि न तत्कृतकादाचित्काणुग तकर्मसम्भवः; अनपेक्षत्वे प्रागप्युत्पादकं स्यात् । विपाको नाम कश्चिददृष्ट गतः धर्मा न ज्ञायते; कर्मविधिवेलायामेव कालविशेषनियतफलदायित्वं यस्य कर्मणश्चोदितम् , तस्य तसत्कालागम एव विपाकः। अनियतकालविशेषाणां कर्मणां प्रबलकर्मान्तराप्रतिबन्ध एव विपाकः, अदृष्टानि च तत्तत्कर्मानुगुणफलदानस्वभावानि । अतोऽनन्तरात्मभिः विविधकालफलदायित्वेनानुष्ठितानामेकदैकरूपविपाको न सम्भवति । अनुमेयेश्वरासिद्धेस्तदधिष्ठानाच न सम्भवति ॥ ११ ॥ समवायाभ्युपगमाञ्च साम्यादनवस्थितेः॥ समवायाभ्युपगमाञ्च असमञ्जसम् , समवायस्यापि जातिगुणादेरिव अपृथक्सिद्धिहेत्वपेक्षासाम्यादनवस्थितेः, समवायस्य तत्स्वभावकल्पनायां जात्यादेरेव तन्याय्यम् ॥ १२ ॥ नित्यमेव च भावात् ।। समवायस्य नित्यत्वाभ्युपगमे सम्बन्धिनित्यत्वमन्तरेण तदनुपपत्तेः अवयवावयविनोरुभयोर्नित्यत्वप्रसङ्गादसदेवेदम् ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy