________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभान्थे
[अ. २. भ्युपगम्यते। अपृथकस्थित्युपलब्धीनां जात्यादीनां तथाभावस्य निर्वाहकत्वेन चेत्समवायोऽभ्युपगम्यते, समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीयः, तस्यापि तथेत्यनवस्थितिः। समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्-जातिगुणानामेवैष स्वभावः परिकल्पनीयः, न पुनरदृष्टचरं समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तम्-इति ॥ १२ ॥
समवायस्य नित्यत्वे अनित्यत्वे चायं दोषस्समानः, नित्यत्वे दोषान्तरं चाह
नित्यमेव च भावात् । २।२।१३॥
समवायस्य सम्बन्धत्वात्सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश्च नित्यमेव भावादसमञ्जसम् ॥ १३ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।२।२।१४॥
परमाणनां पार्थिवाप्यतेजसवायवीयानां चतुर्विधानां रूपरसगन्धस्पर्शवत्वाभ्युपगमादाभिमतनित्यत्वसूक्ष्मत्वनिरवयवत्वादिविपर्ययेणानित्यत्वस्थूलत्वसावयवत्वादि प्रसज्यते, रूपादिमतां घटादीनामनित्यत्वतथाविधकारणान्तरारब्धत्वादिदर्शनात् । नहि दर्शनानुगुण्येनादृष्टोऽर्थः कल्प्यमानः स्वाभिमतविशेषे व्यवस्थापयितुं शक्यः । दर्शनानुगुण्येन हि परमाणूनां रूपादिमत्त्वं त्वया कल्प्यते। अतोऽप्यसमञ्जसम् ॥ १४ ॥ ___अथैतदोषपरिजिहीर्षया परमाशूनां रूपादिमत्त्वं नान्धुपगम्यते, तत्राह
उभयधा च दोषात् । २।२।१५॥
न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोषः, रूपादिविरहेऽपि कारणगुणपूर्वकत्वात्कार्यगुणानां पृथिव्यादयो रूपादिशून्या
For Private And Personal Use Only