SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १ . ] जिज्ञासाधिकरणम् - हङ्कारस्य, उक्तरीत्या 'तस्य जडस्य ज्ञातृत्वायोगात्, द्वयोरप्यचाक्षुषत्वाच्च; न चाक्षुषाणां छाया दृष्टा ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ—अग्निसंपर्कादयःपिण्डौष्ण्यवच्चित्संपर्काज्ज्ञातृत्वोपलब्धिःइति चेत्; नैतत् संविदि वस्तुतो ज्ञातृत्वानभ्युपगमादेव न तत्संपर्कादहङ्कारे ज्ञातृत्वं तदुपलब्धिर्वा । अहंकारस्य त्वचेतनस्य ज्ञातृत्वासम्भवादेव सुतरां न तत्संपर्कात्संविदि ज्ञातृत्वं तदुपलब्धिर्वा || यदप्युक्तम् – उभयत्र न वस्तुतो ज्ञातृत्वमस्ति । अहङ्कारस्त्वनुभूतेरभिव्यञ्जकस्स्वात्मस्थामेवानुभूतिमभिव्यनक्ति, आदर्शादिवत् - इति । तदयुक्तम्; आत्मनस्स्वयंज्येतिषो जडस्वरूपाहङ्काराभिव्यङ्ग्यत्वायोगात् || तदुक्तं ४ " शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥” इति ॥ स्वयंप्रकाशानुभवाधीनसिद्धयो हि सर्वे पदार्थाः । तत्र तदायप्रकाशोऽचिदहङ्कारोऽनुदितानस्तमितस्वरूपप्रकाशमशेषार्थसि द्धिहेतुभूतमनुभवमभिव्यनक्तीत्यात्मविदः परिहसन्ति || किंच अहङ्कारानुभवयोस्स्वभावविरोधादनुभूतेरननुभूतित्वप्रसङ्गाच्च न व्यङ्कव्यङ्ग्यभावः । यथोक्तं ५" व्यङ्कव्यङ्गयत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः । व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटः ।। " इति ॥ नच रविकरनिकराणां स्वाभिव्यङ्ग्यकरतलाभिव्यङ्ग्यत्ववत्संविदभिव्यङ्गन्याहङ्गाराभिव्यङ्ग्यत्वं संविदस्साधीयः, तत्रापि रविकरनिकराणां करतलाभिव्यङ्ग्यत्वाभावात्, करतलप्रतिहतगतयो हि रश्मयो १. तस्य ज्ञातृत्वेति. पा. २. इति चेत् संविदि . इति. पा. 6 1 ३. वास्तबेति. पा. ४. ५, आत्मसिद्धौ. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy