________________
Shri Mahavir Jain Aradhana Kendra
૪૦
www.kobatirth.org
शारीरकमीमांसाभाष्ये
एतदुक्तं भवति - यथा देहादिर्दृश्यत्वपराक्त्वादिहेतुभिस्तत्प्रत्यनीकद्रष्टृत्वप्रत्यक्त्वादेर्विविच्यते, एवमन्तःकरणरूपाहङ्कारोऽपि तव्यत्वादेव तैरेव हेतुभिस्तस्माद्विविच्यते-- इति ॥
अतो विरोधादेव न ज्ञातृत्व महङ्कारस्य, दृशित्ववत् । यथा दृशित्वं तत्कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वमपि न तत्कर्मणोऽभ्युपगन्तव्यम् ॥
न च ज्ञातृत्वं विक्रियात्मकम् ; ज्ञातृत्वं हि ज्ञानगुणाश्रयत्वम् । ज्ञानं चास्य नित्यस्य स्वाभाविकधर्मत्वेन नित्यम् । नित्यत्वं चात्मनो । “नाऽत्मा श्रुतेः" इत्यादिषु वक्ष्यति । २" ज्ञोऽतएव " इत्यत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकमिति वक्ष्यति । अस्य ज्ञानस्वरूपस्यैव मणिप्रभृतीनां प्रभाश्रयत्वमिव ज्ञानाश्रयत्वमप्यविरुद्धमित्युक्तम् । स्वयमपरिच्छिन्नमेव ज्ञानं सङ्कोच विकासाई मित्युपपादयिष्यामः ||
या
३. जडस्वरूपस्याहङ्कारस्येति. पा.
Acharya Shri Kailassagarsuri Gyanmandir
1
अतः क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्तत्कर्मानुगुणतरतमभावेन वर्तते । तच्चेन्द्रियद्वारेण व्यवस्थितम् । तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्योदयास्तमयव्यपदेशः प्रवर्तते । ज्ञानप्रसरे तु कर्तृत्वमस्त्येव । तच्च न स्वाभाविकम् अपि तु कर्मकृतमित्यविक्रियस्वरूप एवात्मा एवंरूपविक्रियात्मकं ज्ञातृत्वं ज्ञानस्वरूपस्यात्मन एवेति न कदाचिदपि जडस्याहङ्कारस्य ज्ञातृत्वसम्भवः ॥
[ अ. १.
३जडस्वरूपस्याप्यहङ्कारस्य चित्संनिधानेन तच्छायापच्या तत्सम्भव इति चेत्; केयं चिच्छायापत्तिः । किमहङ्कारच्छायापत्तिस्संविदः ? उत संविच्छायापत्तिरहङ्कारस्य ? ||
न तावत्संविदः, ४ संविदो ज्ञातृत्वानभ्युपगमात् । नाप्य
४. संविदि इति. पा.
|
For Private And Personal Use Only