________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . दानां लक्षणा समाश्रीयते । अपूर्वकार्यएव लिङादेर्मुख्यवृत्तत्वात् लिङादिभिः क्रियाकार्य लक्षणया प्रतिपाद्यते । कार्यान्वितस्वार्थाभिधायिनां चेतरेषां पदानामपूर्वकार्यान्वित एव मुख्यार्थ इति क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकमेव । अतो वाक्यतात्पर्याविरोधाय सर्वपदानां लक्षणाऽपि न दोषः। अत इदमेवार्थजातं प्रतिपादयन्तो वेदान्ताः प्रमाणम् ॥
प्रत्यक्षादिविरोधे च शास्त्रस्य बलीयस्त्वमुक्तम् । सति च विरोधे बलीयस्त्वं वक्तव्यम्। विरोध एव न दृश्यते, निर्विशेषसन्मात्रब्रह्मग्राहित्वात्प्रत्यक्षस्याननु च 'घटोऽस्ति' 'पटोस्ति' इति नानाकारवस्तुविषयं प्रत्यक्षं कथमिव सन्मालग्राहीत्युच्यते । विलक्षणग्रहणाभावे सति सर्वेषां ज्ञानानामेकविषयत्वेन धारावाहिकविज्ञानवदेकव्यवहारहेतुतैव स्यात् । सत्यम् । तथैवात्र विविच्यते । कथं? घटोऽस्तीत्यत्रास्तित्वं तद्भेदश्च व्यवहियते न च द्वयोरपि व्यवहारयोः प्रत्यक्षमूलत्वं संभवति, तयोभिन्नकालज्ञानफलत्वात् प्रत्यक्षज्ञानस्य चैकक्षणवर्तित्वात् । तत्र स्वरूपं वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम्। भेदग्रहणस्य स्वरूपग्रहणतत्प्रतियोगिस्मरणसव्यपेक्षत्वादेव स्वरूपविषयत्वमवश्याश्रयणीयमिति न भेदः प्रत्यक्षेण गृह्यते। अतो भ्रान्तिमूल एव भेदव्यवहारः॥
किंच भेदो नाम कश्चित्पदार्थो न्यायविद्भिनिरूपयितुं न शक्यते । भेदस्तावन्न वस्तुस्वरूपम् , वस्तुस्वरूपे गृहीते स्वरूपव्यवहारवत्सर्वमाद्भेदव्यवहारप्रसक्तेः। न च वाच्यं स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य प्रतियोगिस्मरणसव्यपेक्षत्वात्, तत्स्मरणाभावेन तदानीमेव न भेदव्यवहारः इति । स्वरूपमात्रभेदवादिनो हि प्रतियोग्यपेक्षा च नोत्पेक्षितुं क्षमा, स्वरूपभेदयोस्वरूपत्वाविशेषात् । यथा स्वरूपव्यवहारो न प्रतियोग्यपेक्षः, भेदव्यवहारोऽपि तथैव स्यात् । 'हस्तः कर' इतिवत् 'घटो भिन्न' इति पर्यायत्वं च स्यात् । नापि धर्मः; धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः, अन्यथा स्वरूपमेव स्यात् । भेदे च तस्यापि
For Private And Personal Use Only