SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org [अ. १. शारीरकमीमांसाभाष्ये कार्ण्यादिन्यावृत्तिस्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् । एवमेकस्यैव वस्तुनस्सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पद १. छा. ६, प्र. २. ख. १. वा. २. तै. भृगु, १. अनु. त्रयम् ॥ तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव - १" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” – इत्यादिभिरैकार्थ्यम् । २" यतो वा इमानि भूतानि जायन्ते" ३" सदेव सोम्येदमग्र आसीत् " । ४" आत्मा वा इदमेक एवाग्र आसीत् " - इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिदमुच्यते - ५ " सत्यं ज्ञानमनन्तं ब्रह्म" इति । तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मावगतम् । जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते । अन्यथा - ६" निरञ्जनम्" ७" निर्गुणम्" इत्यादिभिश्व विरोधः । अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति । ननु च - सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात् । नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधिकरण्यस्य यैक्य एव तात्पर्यमिति सर्वसम्मतम् । ननु च - सर्वपदानां लक्षणा न दृष्टचरी । ततः किम् ? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा ; समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां प ३. छा. ६. प्र. २. ख. १. वा. ४. ऐतरेयोपनिषत्. १. अ.१. ख.१, वा. Acharya Shri Kailassagarsuri Gyanmandir ५. तै आनन्द, १. अनु. १. वा. ६. वे. ६. अ. १९. वा. ७. आत्मोपनिषत्. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy