________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
श्रीशारीरमीमांसाभाग्ये
[अ. १.
---
जगत्कारणं वेद्यतया न तेभ्यः प्रतीयते । तथाहि - भोक्तारमेव पुरुष कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे १" ब्रह्म ते ब्रवाणि” इत्युपक्रम्य : “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः " इति । उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तं ब्रह्माजानते तस्मा एवाजातशत्रुणा " स वै वेदितव्यः" इति ब्रह्मोपदिश्यते । “यस्य वैतत्कर्म " इति कर्मसम्बन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्युपगमात्। कर्मच पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति । नच वाच्यम् — क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म, स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयते - इति; १ “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म” इति पृथन्ङिन्देशवैयर्थ्यात् कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः । तत्तद्भोक्तृकर्मनिमित्तत्वाज्जगदुत्पते रेतेषां पुरुषाणां कर्तेतिच भोक्तुरेवोपपद्यते । तदयमर्थः - एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य, स वै वेदितव्यःतत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यम् - इति । तथोत्तरत्र १ " तौ ह सुप्तं पुरुषमाजग्मतुः तं यष्टिना चिक्षेप" इति सुप्तपुरुषागमनयष्टिघातोत्थापनादीनि च भोक्तृप्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते २" तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वास्श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनं भुञ्जन्ति" इति । तथा १" - एतद्वाला पुरुषोऽशयिष्टक वा एतदभूत्कुत एतदागात्" इति पृष्टममजानते तस्मै स्वयमेवाजातशत्रुरुवाच ३" हिता नाम नाड्यस्तासु तदा
46
१. कौषीतकी. ४. १८ ॥
२. कौषी ४-२० ॥
३. कौषी. ४-१९ ॥
For Private And Personal Use Only