SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.] जगद्वाचित्वाधिकरणम् . ३८१ कृतमासीत्तन्नामरूपाभ्यां न्याक्रियत" इति । अव्याकृतं हि प्रधानम् । अतः प्रधानकारणतावादनिश्चयात्तदेकान्तान्येव । राद्धान्तस्तु-१"सत्यं ज्ञानमनन्तं ब्रह्म" इत्युपक्रम्य१ "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः"२ "तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादिषु सर्वक्षस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात्तस्यैव ब्रह्मणः कारणावस्थायां नामरूपविभागसम्बन्धितया स. द्भावाभावात् असदव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणतावादैकान्तान्येव । सूत्रार्थस्तु-आकाशादिपदचिह्नितेषु "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” इत्यादिषु सर्वशस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात् , सर्वेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्तेः ब्रह्मकारणतावादैकान्तानि । यथाव्यपदिष्टं सार्वात्म्यादियुक्ततयाऽस्माभिर्व्यपदिष्टम् ॥ १४ ॥ तथा सति ३ "असद्वा इदमग्र आसीत्" इति किं ब्रवीतीत्यत आह समाकांत-४"सोऽकामयताबहुस्यां प्रजायेयेति" इति बहुभवनसङ्कल्पपूर्वकं जगत्सृजतो ब्रह्मणस्सर्वज्ञस्य३ "असद्वा इदमग्र आसीत्" इस्यत्र समाकर्षात् कारणावस्थायां नामरूपसम्बन्धित्वाभावेन असदिति ब्रवीति । एवं ५"तद्धदं तीव्याकृतमासीत्" इत्यादिषु५ स एष इहानुप्रविष्ट आनखाग्रेभ्यः"६ "पश्यत्यचक्षुः” इत्यादिपूर्वापरपालोचनया तत्रतत्र सर्वशस्य समाकर्षो द्रष्टव्यः॥ इति वेदान्तदीपे कारणत्वाधिकरणम् ॥ ४ ॥ ..( श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥५॥).. जगद्दाचित्वात् । १।४।१६ ॥ पुनरपि साङ्ख्यः प्रत्यवतिष्ठते-यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति,तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु १. ते. आ. १॥ ४. तै. आ..६-२ ॥ २. छा. ६-२-३॥ ५. कृ. ३-४-७ ॥ ३. ते. आ. ७-१॥ । ६. श्रे. ३-१९॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy