SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्. १८९ न्यत्वमेवापादयतीति विज्ञानमयाज्जीवादन्य एवानन्दमयः परमात्मा । यदुक्तम्-१"तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणाजीवादन्यत्वं न सम्भवति-इति,तदयुक्तम् अस्मिन् प्रकरणे सर्व "तस्यैष एव शारीर आत्मा।यः पूर्वस्य"इति परमात्मन एव शारीरास्मत्वाभिधाने कथं "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः"इत्याकाशादिसृज्यवर्गस्य परमकारणत्वेन प्रज्ञातजीवव्यतिरेकस्य परस्य ब्रह्मण आत्मत्वेन व्यपदेशात्तव्यतिरिक्ताकाशादीनामन्नमयपर्यन्तानां तच्छरीरत्वमवगम्यते । ३“यस्य पृथिवी शरीरं। यस्यापश्शरीरीयस्य तेजश्शरीरं । यस्य वायुश्शरीरं । यस्याकाशश्शरीरं । यस्याक्षरं शरीरं । यस्य मृत्युश्शरीरं । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति सुवालश्रुत्या सर्वतत्त्वानां परमात्मशरीरत्वं स्पष्टमभिधीयते। अतः २"तस्माद्वा एतस्मादात्मनः" इत्यत्रैवान्नमयस्य परमात्मैव शारीर आत्मेत्यवगतः। प्राणमयं प्रकृत्याह १"तस्यैष एव शारीर आत्मा । यः पूर्वस्य" इति। पूर्वस्यान्नमयस्य यश्शारीर आत्मा श्रुत्यन्तरसिद्धः परमकारणभूतः परमात्मा स एव तस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः। एवं मनोमयविज्ञानमययोर्द्रष्टव्यम् । आनन्दमये तु १“एष एव" इति निर्देशस्तस्यानन्यात्मत्वं दर्शयितुम् । तत्कथं विज्ञानमयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्यवगतः । एवं सति विज्ञानमयस्य यइशारीर आत्मा, स एवानन्दमयस्यापि शारीर आत्मेत्युक्ते आनन्दमयस्य अभ्यासावगतपरमात्मभावस्य परमात्मनस्स्वयमेवात्मेत्यवगम्यते। एवं च स्वव्यतिरिक्तं चेतनाचेतनवस्तुजातं स्वशरीरमिति स एव निरुपाधिकश्शारीर आत्मा। अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारी१. तै. आन. ५॥ ३. सुबाल. ७॥ २. तै. आन. १॥ ४. तेजश्शररिम् । यस्याकाशश्शरीरम्' पा।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy